SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ __ [९७] यदि, अन्यभावः, असौ, सकृत् , अपि, अन्यथा, (तदा) ततः, धूमः, न, स्यात् , इह, च, एवम् वक्तृत्वम् , तन्निबन्धनम् . न ।। वृत्तिः-अतीतादे:-भूतप्रमुखस्य, भूतस्य अनागतस्य चेतियावत् । अदर्शनात्-अनवलोकनात् । सर्वत्र-सर्वस्मिन् स्थाने । दर्शनस्य-असर्वज्ञाविनाभूतवक्तृत्वकर्मकावलोकनस्य असिद्धिः सिद्धयभावो दर्शनासिद्धिस्तस्यास्तथा। अग्निधूमादौ वह्निधूमादिस्थले। न-नहि । तुल्यम्-समानम् । वन्य विनाभूतत्वस्यापि धूमे सर्वत्रादर्शनं न समानमित्यर्थः । यतः-यस्माद्धेतोः । अग्ने:वह्नः सकाशात् । धूमभावतः-धूमस्य भाव उत्पत्तिधूमभावस्तस्मात्तथा । एवञ्च धूमस्य वह्नः सकाशादुत्पत्त्या वन्यविनाभूतत्वं धूमे निर्विवादं सिद्धमिति । एतदेव स्फोटयति एवमित्यादिना श्लोकेन-एवम्-अनेन प्रकारेण । यदि-चेत् । अन्यभाव:-अन्यपदार्थः । असौ-बुद्धिविषयीभूतो धूमः । सकृत्एकवारम् । अपि-खलु । अन्यथा-वन्यनविनाभूतः, वहिन विनाभूत इतियावत् (स्यात्, तदा) ततः-वह्नः । धूम:-धूमपदार्थः । न नहि । स्यात् भवेत्-जायेतेत्यर्थः । एवञ्च धूमे यदि वन्यविनाभूतत्वं न स्वीक्रियेत तदा वह्नः सकाशात्तदुत्पत्तिरेव न समुदियात् अतो धूमे वन्यविनाभूतत्वं स्वीकरणीयमकामेनापि . पूर्वपक्षिणाऽपि, प्रकृते तु तन्नियमो नास्तीत्याह-नचेहैवामित्यादिनाइह-असर्वज्ञवक्तृत्वादो। च-पुनः । एवम् - अनेनप्रकारेण । वक्तृत्वम्-हेतुतयोपन्यस्तम् । तन्निबन्धनम्-सोऽसर्वज्ञो निबन्धनं कारण यस्य तत्तथा, असर्वज्ञजनितमितियावत् । न-नहि । एवञ्च दृष्टान्तदा न्तिकयोवैषम्यमित्यवसेयम् ॥ ३२ ॥ ३३ ॥ पुनः शङ्कते
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy