SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ चंद्रराज- चरित्रम् ।। चतुर्थोऽधासे नवमः सर्गः॥ ॥१६॥ प्रीणयतः । श्वश्रूश्चगृहमारक्षम वधूद्वयंविज्ञाय तयोनिहितगृहकर्मा स्वयंनिश्चिन्ता बभूव. इतिश्री चन्द्रराजचरित्रे चतुर्थोल्लासेऽष्टमः सर्गः ॥ ८ ॥ ततस्तेऽपि यथाऽवसरंगृहकृत्यंनिष्पादयन्त्यो स्वस्वधर्मसाधयतः । कुलवधूनामयमेव सदाचारः । एवमुभे सख्यौ परस्परमानन्दमनुभवन्त्यावपि सतनं विवादव्यसनं न मुञ्चतः । धर्मवााविनोदे च विभिन्नमानसे विशेषतस्ते तिष्ठतः, यतःसञ्जातसपत्नीत्वेन तयोः कारणान्तरंसमायातम् । सपत्नीशूलयोर्मध्ये, वरं शूला न चेतरा । शूलया पीब्यते काले, दहत्याद्या पदे पदे ॥१॥ सुन्दराङ्गचावुभे भगिन्यावपि समानपतिके मिथोभूयांसंविद्वेषमावहतस्तर्हि अनयोःकिमुवक्तव्यम्-कस्मिंश्चिदपि वस्तुनि युगपदभिलाषवतो.रबुद्धिर्जायते, यदेकञ्च वस्त्वेकस्मिन्समये द्वयोरुपभोगसाधनकथंभवेत् ? उत्पद्यमानः स क्लेशस्तयोःप्रति* वासरंवर्द्धत एव, यतः--सपत्नीत्वसमं दुःखं, जगत्यन्यन्त्र विद्यते । भगिनीति जनास्तस्मिन्-व्यवहारपरा मुधा । १॥ किञ्च द्वे मार्य यस्य वर्तेते, तस्य जन्मैव निष्फलम् । वैषम्यभावनां दृष्ट्वा, कस्य द्वेषो न जायते ! ॥२॥ स्वप्नेऽपि सुखलेशोऽपि, द्विभार्यस्य भवेन हि । दुःखान्तो हि सुखाभासो-वेद्यते दीनताजुषा ।। ३ ॥ तथाहि--अर्धाङ्गे पार्वती विभ्र-गङ्गाश्च शिरसा दधत् । लोकेशोऽपि भवानीशः, परिभ्रमणमासदत् ॥ ४॥ शूरसेनकुमारस्तु, स्वकर्मकुशलः खियो । ताम्बूलानीव ताम्बूली, समदृष्ट्या निरीक्षते ॥५॥ तथाऽपि वाताहततूलायुगलमिव सम्यगवेक्षमाणस्याऽपि तस्य न्यूनाधिकतानिरीक्षमाणेऽप्युभेभाहैं येनिजचित्ते समादधाते । इतोऽन्यदा द्वीपान्तरात्केनचिद्व्याधेन नीलाश्मद्युतिशिखांशिरसि च्छत्रमिव धारयन्ती, रक्तोत्पल नयना, तप्ततपनीयसमचञ्चूपुटा, अन्तरान्तरेश्यामतरपक्षपर्वा मञ्जुलवाङमाधुर्येण सुधामवधीरयन्ती मजुलैका समासादिता। ॥१६॥ For Private And Persone Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy