Book Title: Balabharata
Author(s): Shivdatta Pt., Kashinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
४१६
काव्यमाला । इति बोधमयीमियं धियं दधती व्यासवितीर्णदिव्यदृक् । समलोकत संगराङ्गणं पतितक्षत्रगणं यथा स्थितम् ॥ ६४ ॥ धृतराष्ट्रयुधिष्ठिरादयस्तदनु व्यासगिरा रणाङ्गणम् । चलदाकुलवीरकामिनीकुलकल्लोलितशोकमासदन् ॥ १५ ॥ अथ वीक्ष्य पलादसंकुलं स्फुटचिरैर्वृतमङ्गिभिर्मतैः । रुददङ्गनमङ्गनं युधः सुबलक्ष्मापसुता हरिं जगौ ॥ ६६ ॥ मृगयख मुकुन्द कुञ्जरैर्धननीलैः कनकोज्वलैभेटैः । व्यसुभिर्वसुधा विभात्यसौ तिमिराकौशुसमीकभूरिव ॥ ६७ ॥ तरदास्यकरांहूयो रुचन्निह निम्नाः क्षितयोऽस्रपूरिताः । यमपानकृतेऽजवासितारुणमैरेयनिखातभाण्डवत् ॥ ६८ ॥ विमलातपवारणच्छलादिह राकाचयचन्द्रमण्डलैः । पतितेषु मुखेषु भूभुजां निजमित्रेष्विव मूर्छितं शुचा ॥ ६९ ॥ गलितैः शुशुभेऽत्र कुम्भिनां रदमुक्ताफलकेतनाञ्चलैः । भटनिर्दलिता सुहृयशस्तरुशाखाकुसुमच्छदैरिव ॥ ७० ॥ इह रक्तमये पयोनिधौ शिखिपत्रातपवारणैर्बभे । जलदैरिव पातुमागतैः क्वचिदुत्पातनियोगवृष्टये ॥ ७१ ॥ हतभूपतिवृन्दखण्डिताश्युतकर्तर्यसिचक्रकैतवात् । क्षतकङ्कणवेणिकुण्डलावलिमौज्झन्निह दिग्जयश्रियः ॥ ७२ ॥ त्रुटिताखिलसंधिनि स्थिता कवचे लूनवपुष्टया बभुः । क्रमुकद्रुमवल्करोपिता इव भोज्याय यमेन दोर्भूतः ॥ ७३ ॥ पतितैः कलितासिभिर्भृशं कनकाभैर्भुजशालिनां भुजैः । नकुलैधुतपन्नगैरिव प्रमदः कालसभासदां ददे ।। ७४ ॥ यमकिंकरबालकवर्नवशिक्षातरणाय सजिताः । इह तुम्बफलोच्चया इव सतजाब्धौ भटमौलयो बभुः ॥ ७५ ॥ इदमुल्लसितात्तमुच्चकैः स्थितमाभाति शताङ्गमण्डलम् । रथिनस्त्रिदिवालयं गतान्वयमन्वेतुमिवाहतोद्यमम् ॥ ७६ ॥ १. 'भोज्या यमकेन' ख.

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512