Book Title: Balabharata
Author(s): Shivdatta Pt., Kashinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 506
________________ ४८६ काव्यमाला। सुरगजरजनीभुजंगगङ्गाभुजगपतिप्रतिशूरकीर्तिपूरः । तदनु मुनियतिर्मतिप्रतिष्ठाजनितरसोऽजनि जीवदेवसूरिः ॥ ७ ॥ वयस्यद्विद्याभिः खलु सह कलाभिर्गुणगणाः सहेलं खेलन्तो बहुमतिलते यत्तनुवने । यशः श्रीपुष्पस्स्रक्चयसुरभयः संशयमयीं ___महादोलां मुक्त्वा सुकृतरसवापीषु विहृताः ॥ ८ ॥ महायोगी भोगी प्रभुनिभभुजस्तस्य शमिनः सभायामायातः क्वचिदहनि कश्चिद्वहनदृक् । असावुद्यद्विद्याचयजयपताकामिव सुखं - मुखाजिह्वां कृष्ट्वा कृतपरिकरोग्रे न्यविशत ॥९॥ प्रीतिव्यालोकमौलिच्छलचलकमलामुच्छलन्युञ्छनालि ब्राजभ्राजिष्णुवीची स्तिमिततिमिसगृकलाकेलिकम्राम् । अक्षुभ्यंस्तत्प्रभावादपि सुकृतसुधासिन्धुधाराधरोऽयं दूरं सूरिः प्रपूरे सर इव वरवावृष्टिभिः संसदं सः ॥ १० ॥ अथ सुकृतकथान्ते गन्तुमिच्छत्रसज्ञां __ न सपरिकरबन्धात्क्रष्टुमीष्टे स्म योगी । भषण इव तदस्मिन्नुल्लसद्दीनशब्दे किमिदमिति जनेनापृष्टमाचष्ट सूरिः ॥ ११ ॥ शक्तः पातयितुं नभस्तरुफलं हुंकारतोऽक क्षमो मूलस्तम्भमपि त्रिलोकभुवने भy भुजंगेश्वरम् । योगीन्द्रोऽद्भुतभूरिसिद्धिरसिकोऽसौ मत्कपालाप्तये प्राप्तः स्तम्भनमाचरन्मयि मया द्राक्प्रत्युत स्तम्भितः ॥ १२ ॥ वक्रानलम्बितललद्रसनावबद्ध पर्यस्तिकोऽत्र मदमर्षदवानलेन । कुञ्जार्धनिःसृतमहोरगवेष्टिताङ्गः शाखीव शुष्यतुतरामयमित्थमेव ॥ १३ ॥ १. 'वा' ख. २. 'हर्ष ख. ३. 'कुञ्जान' ख.

Loading...

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512