Book Title: Balabharata
Author(s): Shivdatta Pt., Kashinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
१४अश्वमेधपर्व-१सर्गः) बालभारतम् ।
शप्तस्तत्पितृभिः कोपः खोपयोगि पयो लिहन् । अदभ्रविभ्रमो भूमौ भवान्बभ्रु भवेदिति ॥ ८८ ॥ यदि यौधिष्ठिरे यज्ञे करिष्यसि विमाननाम् । तदा विमुच्यसे सत्यं दत्तस्तैरित्यनुग्रहः ॥ ८९ ॥ अयं स कोपनकुलः कुर्वनिह विमाननाम् । राज्ञो यज्ञोद्भवां मानमूर्छा लुत्वा व्यमुञ्चत ॥ ९० ॥ बभ्रोरित्यद्भुतकथाश्रवणप्रवणाशयाः । भूदेवनरदेवाद्याः सर्वे विस्मयमाश्रयन् ॥ ९१ ॥
इति यतिशतहर्षस्फायमानप्रहर्षः __ प्रततहुतिविधानः प्रौढसत्पात्रदानः । दलितदुरितभारः सोऽभवत्पुण्यसारः
कृतकुगतिनिषेधस्तस्य राज्ञोऽश्वमेधः ॥ ९२ ॥ भेजे श्रीजिनदत्तसूरिसुगुरोरहन्मतार्हस्थितेः
पादाजभ्रमरोपमानममरो नाम व्रतीन्द्रः कृती। तद्विद्याहृदि बालभारतमहाकाव्येऽश्वमेधोभवं
पर्व प्रीतिपदं चतुर्दशमिदं संप्राप संपूर्णताम् ॥ ९३ ॥ इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रविरचिते श्रीबालभारतनाम्नि महाकाव्ये
चतुर्दशमाश्वमेधिकं पर्व समाप्तम् ।
१. 'श्वोप' ख. २. 'मान्यः' ख. ३. 'मुक्त्वा व्यमुच्यत' ख. ४. 'कृत' ख. ५. 'कृतिजगति' ख.

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512