Book Title: Balabharata
Author(s): Shivdatta Pt., Kashinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
कविप्रशस्तिः]
बालभारतम् ।
४८५
कविप्रशस्तिः । किंचित्संचलितेऽपि वस्तुनि भृशं यत्संभवान्मन्महे
विश्वं यन्मयमीश्वरादिमयतास्पष्टप्रमाणेप्सितम् । संसारप्रसरः परस्तनुमतां यस्यानुरोधेषु य__ त्संरोधेषु शिवं स यच्छतु सतां श्रीचारुतां मारुतः ॥ १ ॥ देशे सत्तीर्थसार्थत्रुटदुरुदुरिते श्रीहनूमत्तनूजो
त्पत्तौ तेन प्रतेने द्युजगदिव महास्थानमस्थानमाधेः । खाख्याङ्कज्ञातिनाम्ना मरकतमणिका मिश्रमुक्ताफलस्रग्भूषावद्भूमृगाक्ष्या द्विजपटलमिहास्थापि साकं वणिग्भिः ॥ २ ॥ श्रीमद्वायटनाम्नि सारसुकृतश्रीधाम्नि तस्मिन्महा__ स्थाने मानिनि दानमानसरसास्ते वायटीया द्विजाः। स्तोमस्तोमसमुत्थधूमनिवहैर्मालिन्यमालम्बयामासु वणिजो जिनार्चनघनोद्यद्भूपधूमोत्करैः ॥ ३ ॥ ध्वजमिषभुजमूलस्थूलकुम्भैकवक्षो
रुहमहह महीयोधःकृतस्फाटिकाद्रि । विलसति वणिजां सत्कीर्तिधार्धनारी
__श्वरवपुरिव तत्र श्रीमहावीरचैत्यम् ॥ ४ ॥ श्रीश्वेताम्बरमौलिमौक्तिकमणिस्तस्मिञ्जिनेन्द्रालये
अधिष्ठाता जिनदत्तसूरिरजनि ज्ञानैकवैज्ञानिकः । श्रेयस्तुङ्गयदङ्गसंगमसमुद्भूतप्रभूतस्फुरत्पुण्यैः पश्य गुणैर्गतं दिवि सितच्छायैरुडच्छद्मना ॥ ५ ॥ तत्पट्टोधरवरमणियोमणिद्योत्तजैत्रै
स्तेजःपुजैः किमपि ककुभोऽपूरि रासिल्लमूरिः। यस्य व्योमच्छलकलशभृत्कीर्तिधारापयोभिगोभिर्भुक्ता घनजनमनःकानने मोहवल्लयः ॥ ६ ॥

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512