Book Title: Balabharata
Author(s): Shivdatta Pt., Kashinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 483
________________ १७प्रास्थानिकपर्व-१सर्गः] बालभारतम् । भूपः श्रुत्वेति भीमोक्तिमनावृत्तमुखोऽवदत् । पक्षपातमधत्तैका सुराधिपसुतेऽधिकम् ॥ १३ ॥ (युग्मम्) पतिते सहदेवेऽथ भीमपृष्टोऽभ्यधान्नृपः । अयं धियोऽभिमानेन मेने मोहजडं जगत् ॥ १४ ॥ नेकुले पतिते भीमपृष्टः मापोऽवदत्पुनः । न स्पर्धा रूपदर्पण कन्दर्पेऽप्येष चक्षमे ॥ १५ ॥ जातपातेऽर्जुने वातपुत्रपृष्टो जगौ नृपः ।। चचाल शिथिलं सैष शूरमानी रणाङ्गणे ॥ १६ ॥ पतितोऽस्मीति भीमेन पातिनाभिहितस्ततः । भूपोऽभ्यधाबले दो बह्वाशस्य तवाभवत् ॥ १७ ॥ इत्याक्रमत्परं लोकं धर्मवीरो युधिष्ठिरः। नाक्षिपञ्चक्षुरप्येषु पतितेष्वपि बन्धुषु ॥ १८ ॥ शुनैवानुगतो गच्छन्नविलुप्तमतिर्नृप । पुरुहूतं पुरोभूतं रथस्थितमथैक्षत ॥ १९ ॥ देही मत्पुरमेहीति वाग्भङ्गया भाग्यभोग्यया । आहूतः पुरुहूतेन पुरुहूतः क्षिते गौ ॥ २० ॥ नाकमाकलयिष्यामि न विनैवामुना शुना । धिक्तं यः किल संपत्सु विपत्सेवकमुज्झति ॥ २१ ॥ वनेऽप्यनुज्झितासक्तिर्मलिनोऽप्यलिनां गणः । सुरमूर्धाधिरोहेऽपि सुमनोभिर्न मुच्यते ॥ २२॥ नैवालिङ्गन्ति गोब्रह्मशिवलिङ्गादिभेदिनः । जाह्नवीसवनालस्या जनमाश्रितमोचिनम् ॥ २३ ॥ एतत्त्यागे व मे धर्मस्तं विना घुगतिः कुतः । आस्तां मे तदियं शिक्षा तवापि भ्रंशकारिणी ॥ २४ ॥ १. 'पतिते सहदेवेऽथ' इत्ययं श्लोकः ख-ग-पुस्तकयोः. २. 'नकुले पतिते भीमपृष्टः' इत्ययं श्लोकः ख-ग-पुस्तकयोः. ३. 'स्याभवत्तव' ख-ग. ४. 'क्षिपत्' क. ५. 'वशुनामुना' ख.

Loading...

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512