Book Title: Balabharata
Author(s): Shivdatta Pt., Kashinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 461
________________ १३ अनुशासनपर्व - १ सर्गः ] बालभारतम् । सर्वज्ञमानी सततोयदुद्यज्ज्ञानप्रधानोऽपि स योगिवर्गः । व्योम्नो यदङ्गाष्टमभागभावभाजो न पर्यन्तपदं ददर्श ॥ २९ ॥ ईग्विधाः सन्ति न रोणि रोम्णि ब्रह्माण्डपिण्डाः कति यस्य भर्तुः । संभूय तत्तद्गतविष्णुधातृश्रेयापि वर्ण्य क्व नु यन्महत्त्वम् ॥ २६ ॥ चक्षुश्चलं चुम्बति यद्यद लोलं मनः श्लिष्यति यद्यदाशु | वाक्स्वैरिणी यद्यदुपैति तत्तन्मुक्तिप्रदं यन्मयविश्वबोधात् ॥ २७ ॥ यन्मौलिजस्वेदजलप्रवाह निस्यन्दसंदोह नदेकदेशे । नाभीसरोजस्थित विश्वकर्ता हरित्रिलोकीजठरोऽपि शेते ॥ २८ ॥ स एव देवः परमस्तमांसि महांसि चातीत्य कृतप्रतिष्ठः । इच्छाक्रियाज्ञानकृतप्रेशस्तिलुप्तत्रिलोको जयति त्रिनेत्रः ॥ २९ ॥ इदं वदन्नेव महेशमन्तर्निधाय स ध्यानदृशावतस्थे । रोमाञ्चवद्भिः करसंपुटानि मालेऽन्यधीयन्त युधिष्ठिराद्यैः ॥ ३० ॥ अथो तथोद्यन्महनीयमोहनिशावसाने क्षणजागरूके । जनेऽखिलेऽस्मिन्कृकवाकुवाक्यध्वनिर्धुनीसूनुरिलापमूचे ॥ ३१ ॥ चेतश्चलं गच्छति यत्र यत्र तृणेऽपि तत्तत्कुशला रसेन । ध्यायन्ति तत्कालभवद्भुजंगगङ्गादिशृङ्गारिततत्स्वरूपम् ॥ ३२ ॥ तदीदृगेकैकगुणाश्रितोऽपि कर्मावलीं कर्मकरीं करोति । यस्त्वीदृशाशेषगुणाभिरामः समानधाम्नः परमस्य धाम ॥ ३३ ॥ धर्मज्ञ सत्कर्मनिधे कुकर्महतेषु वंश्येषु वृथाभिशङ्की । तन्मा मुहः पालय भूमिपाल महीमहीना खिलधर्मकर्मा ॥ ३४ ॥ विपद्गतं सिन्धुसुतं स्वशिष्यं द्रष्टुं तदा वाक्पतिरागतश्च । नत्वार्थितः कर्मगतीः शरीरशरीरिणोराह च खं गतश्च ॥ ३५ ॥ प्रणम्य भूपेन जगत्स्वरूपं पृष्टस्तदा नाकनदीकुमारः । समग्रमावेदयति स्म वेदश्रुत्यादिविद्यार्णवपारदृश्वा ॥ ३६ ॥ ४४१ १. प्रथमद्वितीयपादव्यत्यासः ख- पुस्तके. २. 'प्रशस्ते' ख. ३. 'शङ्काम् क. ४. 'जगत्स्वक्लृप्तं' ख. ५६

Loading...

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512