Book Title: Balabharata
Author(s): Shivdatta Pt., Kashinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
१५आश्रमवासपर्व-१सर्गः] बालभारतम् ।
- ४५३ इति व्यासोक्तिभिः कृच्छ्रादोमित्युक्ते महीभुजा । प्रणवश्रवणं श्रेय इति प्रीत कुरूद्वहः ॥ १३ ॥ भीष्मादीनामथ श्राद्धं कृत्वासौ नृपसंमतः । दानं दानपयःशान्तविश्वदौःस्थ्यमैलं ददौ ॥ १४ ॥ श्राद्धे दुर्योधनादीनामुंद्यद्धनधनव्यये । अभूभीमप्रकोपाग्नेज्वलतो जलदोऽर्जुनः ॥ १५ ॥ अथामन्य कुलं पौरानप्यरण्याय बुद्धिदृक् । श्रीरामवत्कनिष्ठेन कान्तया च युतोऽचलत् ॥ १६ ॥ दीनदीनैर्निषिद्धापि सुतैः कुन्ती तमन्वगात् । संजयोऽपि ययौ जज्ञे वनी पञ्चेन्द्रियेव तैः ॥ १७ ॥ मुनीभूतेन भूपेन शैतयूपेन संगतः । तत्र तेपे तपः प्रज्ञाचक्षुः सानुचरश्चिरम् ॥ १८ ॥ आत्मेश ईश आत्मेति तेषां ध्यानलयस्पृशाम् । अङ्गानि स भुजंगानि बभुः कार्यनिशानिभात् ॥ १९ ॥ एत्य तीर्थोपमं तीर्थयात्रोत्का नारदादयः । प्राक्चरित्रैश्विरादेनमानन्ध दिवमुद्ययुः ॥ २० ॥ रथैरथैतन्नतिधीस्तां वनीमवनीधवः । साधै कुरुपुरन्ध्रीभिः समगादनुगावृतः ॥ २१ ॥ दरवारितराजाहलाञ्छनः शुभवाञ्छनः । बहिर्बद्धबलस्कन्धः सबन्धुः सोऽविशद्वनम् ॥ २२ ॥ नमन्गुरून्कुरूत्तंसः प्रतेने पुण्यमुन्नतम् । वर्षन्ह श्रुवारीणि भवदोषमशोषयत् ॥ २३ ॥ शुद्धिजुष्टं च पुष्टं च दधतोऽङ्गं यशोमयम् ।
स्थामाक्षामशरीरास्ते नृपाय ददुराशिषम् ॥ २४ ॥ १. 'पराः' ख. २. 'नलं' क; 'तलं' ग. ३. 'मुद्यन्ते च' क; 'मुद्यनय' ख. ४. 'दीनाननैः पाठः. ५. 'सुत' ख. ६.'कार्यनशा' ख. ७. 'रथोतननिधी खः 'रथैतन्नभिधी' क. ८. 'श्याम' ख-ग.

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512