Book Title: Balabharata
Author(s): Shivdatta Pt., Kashinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
१३अनुशासनपर्व-१सर्गः] बालभारतम् ।
४४३ इन्द्राद्यैरपि दुर्जयस्तव वसुः सूनुसृतः स्वेच्छया मा रोदीरिति बोधिता मधुजिता निस्पन्दमीनाभवत् ॥ ४९ ॥ आनम्य धूर्जटिजटावलयस्य विश्व___ कल्याणपुण्यकलसस्य जलं त्रिमार्गाम् । आविर्भविष्यदधिकाधिकवीरसंय
द्भूपः पुरी सहचरैः सहितस्ततोऽगात् ॥ १० ॥ भेजे श्रीजिनदत्तसूरिसुगुरोरहन्मतार्हस्थितेः
पादाजभ्रमरोपमानममरो नाम व्रतीन्द्रः कृती। तद्भाषाभुवि बालभारतमहाकाव्येऽनुशास्तिक्रम
श्रेयाश्रीसदनं त्रयोदशमिदं पर्व प्रपेदे शमम् ॥ ५१ ॥ इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रसूरिविरचिते श्रीबालभारतनानि महाकाव्ये वीराङ्केऽनुशासनपर्वणि भीष्मस्वर्गगमनप्रकीर्तनो नामैकचत्वारिंशः सर्गः ।
अनेनैकेन सर्गेण पर्वण्यत्रानुशासने । अनुष्टुभां विनिर्दिष्टा सप्ततिः षड्भिरुत्तरा ॥
समाप्तमिदमनुशासनपर्व।
१. 'वपुः' ख. २. 'निष्पन्द' क. ३. 'कलभस्य' क. ४. 'त्रिमार्गम्' क.

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512