Book Title: Apstambparibhasha Sutram
Author(s): A Mahadev Shastri
Publisher: Government of Mysore

View full book text
Previous | Next

Page 32
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः खण्डः ६. क-कस्तहि त्रिभिदैविधीयत इत्यत्राह । सर्वैरमिष्टोमः॥ अग्निष्टोमशब्देन अग्निष्ठोमसंस्थप्रकृतिभूतो ज्योतिष्टोम उच्यते । स तु साङ्गः प्रस्तुतैः सदैविधीयते । स्तोत्राणि सामवेदेन । शस्राणि ऋग्वेदेन । ग्रहग्रहणादि यजुर्वेदेन । तत्र स्तोत्राण्युद्गात्रा कर्नव्यानि । शम्रापि होत्रा । ग्रहग्रहणाटीन्यभ्वर्यणा । ह.-प्रगीतमन्त्रमाध्य गणिनिश्रगुणमंकीर्तने म्नोमशब्दः । यज्ञायज्ञीयं सामानेयं । तत्साध्यं स्तोत्रमग्निष्टोमः । इह तस्तोत्रसंस्थत्वात् ऋतोरमिष्टोमाभिधानं । ऋग्वेदादिभिस्त्रिभिरेव तस्य साङ्गो विधिः पूर्यत इत्यर्थः । ननु ‘स त्रिभिः' इति वचनस्य निर्मुक्तापवादस्य पारिशेप्यादग्निष्टोमविषयत्वेनावसितत्वान्नार्थ आरम्भेणेति चेत् । उच्यते । अथर्वणवेद प्राप्तचर्थोयमारम्भः, सर्वै रथर्वणवेदसहिनैरग्निष्टोमो विधीयत इति । तत्रहि] कृत्स्नं ब्रह्मत्व मानातं । एवं स त्रिभिरिति विरुद्धमापद्येत । अत्र ब्रूमः । त्रिप्वपि वेदेषु यद्ब्रह्मत्वमानातं तेनैव सकलं पूर्यत इति नैकेनाप्यथर्वा पेक्षेति प्रतिपादयितुं स त्रिभिरित्यारब्धं । तथाच अतिः । “यहचैव होत्रं क्रियते यजुषाध्वर्यवं सानोद्गीथं व्यारब्धा त्रयी विद्या भवति अथ केनं ब्रह्मत्वं क्रियते त्रय्या विद्ययेति ब्रूयात्” इति । तस्मात्सूत्रदयेनैवं व्यवस्थितं त्रिभिदैर्ब्रह्मत्वं क्रियते अथर्वणवेदेन वेति । अथवा दर्वीहोमानामपि त्रिभिरेव विधाने प्राप्ने तन्निवृत्त्यर्थमिदमारभ्यते, यत्र यत्र वेदे दर्वीहोमविधानं नत्र साकल्येनैवेति । ७. क-दूरस्थस्य श्रवणकरणशब्दप्रयोगः उच्चैः प्रयोगः । घ्यावृत्त्यर्थस्सोयमारम्भः. एवं तर्हि. नकषामप्यथर्वा. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122