Book Title: Apstambparibhasha Sutram
Author(s): A Mahadev Shastri
Publisher: Government of Mysore

View full book text
Previous | Next

Page 70
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः खण्डः, ५३ २७. क-विधीयन्त इति विधयोङ्गानि । तानि प्रकृतेन प्रधानेन बध्यन्ते अपरुध्यन्ते । पुरुषार्थनिर्वर्तकत्वेन प्रमाणान्तरास्पृष्टापूर्वसाधनं करणम् । करणं विधीयमानं करणमित्युपकारकमपेक्षते । अङ्गान्यपि निरधिकारवाक्यविहितत्वेन प्रयोजनापेक्षाणि सन्ति, श्रुत्यादिभिः फलवत्प्रधानतादर्थ्य प्रतिपाद्यमानानि, तदपेक्षितोपकारजनकत्वेन प्रधानेन प्रकृतेनावरुध्यन्ते ॥ ह.-प्रकरणं फलवदपूर्वमेव । तेन सन्निहिता धर्मा बध्यन्ते । यस्य फलवकर्मणस्सकाशे ये धर्मा आनातास्ते तदर्था एव सर्व इत्यर्थः । अतो दर्शपूर्णमासयोविहिता धर्मास्तदर्था एव ; नाग्निहोत्रसौर्याार्थाः॥ २८. क-श्रूत्यादिभिर्येषामविशेषनिर्देश: विशेषसम्बन्धी नास्ति यथा प्रयाजादयस्तानि साधारणानि ॥ ह.-अनिर्देशो विशेषाभूतिः । अन्यस्य कारणस्याभावे सर्वेषां प्रधानानां सन्निहितान्यङ्गानि साधरणानि भवन्ति । पर्यनिकरणादयः प्रयाजादयश्चोदाहरणम् । यद्वा-अङ्गानां प्रधानानां साधारणान्यङ्गानि । आज्यधर्मावेदिधर्माश्चोदाहरणम् । अतो[ते ]ङ्गानां प्रधानहविषां च साधारणा भवेयुः । तस्मादनूयाजकाले आज्ये दुष्टे, पुनराज्यसंस्कारा: क्रियन्ते ॥ २९. क-येषां श्रुत्यादिभिर्विशेषनिर्देशस्तानि यथोपदेशं व्यवतिष्ठन्ते व्यवस्थितानि भवन्ति । यथा 'अरुणया ' इति ऋये, लिङ्गेन ‘स्योनन्ते' इति सदनकरणे, वाक्येन 'अवीवृधेताम्' इत्यनीषोमीये, प्रकरणेन प्राजापत्ये, स्थानेन 'दब्धिरसि' इत्युपांशुयाजे, समाख्ययाऽध्वर्युः ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122