Book Title: Apstambparibhasha Sutram
Author(s): A Mahadev Shastri
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिभाषाभाष्यवृत्त्योः.
ह.-यानि कर्माणि द्रव्याश्रयाणि द्रव्ये प्रत्यक्षं विकारान् जनयन्ति तानि सन्निपातीनि; अवघात: पेषणं श्रपणमिति । यैस्तु द्रव्यैः [व्ये प्रत्यक्षो विकारो नोत्पद्यते तान्यसन्निपातीनि अभिमन्त्रणानुमन्त्रणजपोपस्थानावेक्षणानि । तेप्वपि सङ्ख्यायुक्तानि त कादिवद्वत्सकन्मन्त्र इत्यर्थः । “अपां क्षये” इति ग्राणामनुमन्त्रणमुदाहरणम्। तत्र सन्मन्त्रमुक्ता सर्वेषां ग्राव्णामनुमन्त्रणम् । ( भिन्नपीठानामप्यङ्गविरोधे मन्त्रा आवर्तन्ते । यथा “ सूर्यज्योतिर्विभाहि ” इति पुरोडाशाभिमन्त्रणम्' ) ॥
४६. क्र-एकस्मिन्नपि प्रयोगे भिन्नकालेप्ववहननादिषु हवि कृदादयो मन्त्रा: आवर्तन्ते । सवनीयेषु लाजार्थं पुनर्हविष्कृदाहानमन्त्रा आवर्तन्ते । तथा ग्रयणे एकोलूखलपक्षे कालभेदात् अध्रिगुर्दैव्याश्शमितार' इति वाजपेये सारस्वतान्तानां कृतोपि सारस्वतप्रभूतीनामावर्तते । 'अनये भ्राजस्वते पुरोडाशमष्टाकपालं, 'सौर्य चरुमग्नये भ्राजस्वते पुरोडाशमष्टाकपालं ' इति अनये भ्राजस्वते हवियं विहितम् । तस्य याज्यानुवाक्यायुगळं सूर्ययागविहितत्वादावर्तते । पुरोनुवाक्याग्रहणं प्रदर्शनार्थम् । स कृत्स्नो याग आवर्तते । मनोताप्यधिगुवद्वाजपेय आवर्तते । इतरेषां कालभेदेपि तन्त्रत्वमेव । वैश्वदेवे हविष्कृत्तन्त्रत्वम्। सान्नाय्ये स्विष्टकृति याज्यानुवाक्या तन्त्रेण प्रयुज्यते । अधिगुमनोता चैकादशिन्यां॥
ह.-हविष्कृदिति “हविष्कृदेहि " इत्यवहननमन्त्रोभिधीयते, अनेन हविः क्रियत इति । अध्रिगुरिति दैव्याश्शमितार:' इति । पूर्व याज्यायाः सम्प्रेषादनन्तरं योच्यते सा पुरोनुवाक्या।
[( ) एवं चिह्नितं वाक्यं क. पुस्तके नास्ति.]
For Private and Personal Use Only

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122