Book Title: Apstambparibhasha Sutram
Author(s): A Mahadev Shastri
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमः खण्डः
इति । उक्तं च आचार्यः “भैष स्थाणोरपराधो यदेनमन्धो न पश्यति" इति ॥
ह.-कैश्चिन्मन्त्राणामेव वेदत्वमाख्यातं । कैश्चित्कल्पसूत्राणामपि । उभयनिरासार्थोयमारम्भः । सकलस्य वेदराशेः पारायणादिषु उपसङ्गहणं प्रयोजनम् ॥
. ३४. क-तत्र मन्त्रव्राह्मणयोविवेकायाह--कर्मचोदना ब्राह्मणानि ॥ साङ्गानि कर्माणि चोदयन्ति विदधति यानि यानि वाक्यानि तानि चोदनाः । तानि ब्राह्मणानि स्वर्गकामो यजेत' 'वायव्य श्वेतमालभेत भूतिकाम:, श्रीहीनवहन्ति ' इत्येवमादीनि ॥
ह.-कर्म चोदते विधीयते याभिस्ता: कर्मचोदनाः । 'वायव्य श्वेतमालभेत' इत्यादयः । ता: ब्राह्मणानीत्युच्यन्ते ॥
३५-३६. क-यदि कर्मापदेशानि ब्राह्मणानि, कर्माणि न चौद्यन्ते [यैः] यथा वायुर्वे क्षेपिटा' इति । यथातिथये प्रद्रुताय' 'यजमान मेव सूवर्ग लोकं गमयति अग्निा अकामयत वसवो वा अकामयन्त ' ' आपो वा इदमने सलिलमासीत् । इत्यादिभिः तेषामब्राह्मणत्वं प्राप्नोति । अत इद मुच्यते--ब्राह्मणशेषोथवादः॥ ब्राह्मणस्य विधायकस्य शेषः अङ्गमुपकारकं अर्थवादः। ‘वायुर्वै क्षेपिष्टा' इत्यर्थवादः। 'यथातिथये' इति निन्दा । यजमानमेव सुवर्ग लोकं गमयति' इति प्रशंसा । 'अग्निवा इति 'वसवों वा' इति परकृतिः । बहुपुरुषकर्तृकं पुराकल्प इति केचित् । 'आपो वा इदमग्रे सलिलमासीत् । इत्येषः अनिर्दिष्टकर्तृकः पुराकल्प
For Private and Personal Use Only

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122