Book Title: Apstambparibhasha Sutram
Author(s): A Mahadev Shastri
Publisher: Government of Mysore

View full book text
Previous | Next

Page 90
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयः खण्डः. साप्तदश्यमानातम् । दर्शपूर्णमासप्रकरणे पाञ्चदश्यवचनं बहुयाजिनामपि पाञ्चदश्यप्राप्त्यर्थमेव । २९. क.-यासां विकृतीनां दृष्टीनां पशुबन्धानां च 'सप्तदश सामिधेनीरन्वाह' इति पुनस्सप्तदश सामिधेन्यो विधीयन्ते तत्र सप्तदश, अन्यत्र पञ्चदशैव ॥ ह.-इदानीं प्रकृतौ प्रतिषिद्धस्य साप्तदश्यस्यावकाशोभिधीयते--यास्विष्टिषु पशुबन्धेषु वा साप्तदश्यं श्रूयते तास्वेव भवति नेतरास्वित्यर्थः; कासु चिद्विकृतिषु पुन श्रवणस्य तास्वेवोपसंहारार्थत्वात् , प्रकरणाम्नातस्यापूर्वसम्बन्धार्थत्वेनानारभ्याम्नातस्य द्वारविनियोगार्थत्वेन च व्यापारभेदसम्भवात् ॥ ३०. क.-'आर्थवणा वै काम्यास्ता उपांशु कर्तव्याः' इति या विकृतय उपांशु क्रियाते, तत्र यावत्प्रधानं प्रधानदेवतावाचकं पदमुपांशु प्रयोक्तव्यम् , याज्यानुवाक्ये च ॥ __ ह.-यदिदं श्रूयते ‘उपांशु काम्या इष्टयः क्रियन्ते' इति, तत्र काम्यास्विष्टिषु यावत्प्रधानं तावदेवोपांशु भवति । नाङ्गेधूपांशुत्वमित्यर्थः । इदं च प्रधानोपांशुत्वं न्यायसिद्धमेवोपदिश्यते । विकृतौ प्रधानस्य प्रत्यक्षोपदिष्टत्वात् , अङ्गानां चानुमानिकत्वात् प्राकृतविध्यन्तातिदेशेनैव वैकतविधेनिराकाङ्क्षत्वात् वैकृतोपदेशापर्यवसानेनैवाकाक्षायाः कल्प्यत्वात् प्रधानसम्बन्धमात्रेणैव वैकृतोपदेशस्य कृतार्थत्वा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122