Book Title: Apstambparibhasha Sutram
Author(s): A Mahadev Shastri
Publisher: Government of Mysore

View full book text
Previous | Next

Page 62
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः खण्डः. ४५ ह.-उपचारः क्रिया । उत्तरत उपचारो यस्य सोयमुत्तरतउपचारः । अनिर्दिष्टदेशाः क्रियाः उत्तरतो विहारस्य कार्या इत्यर्थः । पित्रचास्तु दक्षिणतो विहारस्य ; 'दक्षिणा वृद्धि पितृणाम् ' इति वाक्यशेषात् ॥ ११. क-अध्वर्खादिरनिमासाद्य नापपर्यावर्तेत नानभिमुखं पर्यावर्तेत ; न तु पृष्ठतः कृत्वा सञ्चरेत् ॥ ___ ह.-अनि पृष्टतः कृत्वा यत्पर्यावर्तनं तदपपर्यावर्तनमाहुः। अग्नेरभिमुखमेव क्रियासु' पर्यावर्तेत इत्यर्थः ॥ १२. क-अपपर्यावर्ततेत्यनुवर्तते । महावेद्यामप्रणीतेनौ तस्थानानभिमुखो न सञ्चरेत् ॥ ह.-विहारादपि नापपर्यावर्तेत । महावेद्यामनावप्रणीते विहारं पृष्ठतः कृत्वा पर्यावर्तनप्रतिषेधाद यायमारम्भः ॥ १३. क-यज्ञाङ्गानि ग्रहचमसादीनि अभ्यन्तराणि, बाह्याः कर्तारो यथा स्युस्तथा सञ्चरेत् । पत्नी यजमानश्च ऋत्विग्भ्योन्तरे स्याताम् ॥ ह.-यज्ञाङ्गानि कर्तृव्यतिरिक्तानि सर्वाणि यज्ञाङ्गद्रव्याण्यभिधीयन्ते । पारिशेप्यादेव कर्तृणां बाह्यत्वे सिद्धे, 'बाह्याः कारः' इति पुनर्वचनं यजमानपन्चोरपि बाह्या ऋत्विज इति ज्ञापनार्थम् । अतः ऋत्विनामपि मुख्याजघन्यो बाह्य इति । उक्तं चाश्वलायनेन — उत्तरेण होतारमतिव्रजेद्दक्षिणेन दण्डं हरेत् । इति ॥ क-क्रियाद्वयेपि. . क-यज्ञार्थ. ख-बाह्यत्वमिति बाह्या. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122