Book Title: Apstambparibhasha Sutram
Author(s): A Mahadev Shastri
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तृतीयः खण्डः.
ह - आतमाभावयतीति । श्रुतं च प्रत्याश्रुतं चाश्रुतप्रत्याश्रुते । इज्यते द्रव्यमनयेति याज्या | अनूच्यते उद्दिश्यते देवतेत्यनुवाक्या । याज्या चानुवाक्या च याज्यानुवाक्ये | आज्यव्यतिरिक्तविषां पुरोडाशमांससान्नाय्यादीनां उपस्तरणाभिघारणे विधीयेते । ते च हविस्संस्कारार्थे | आज्यं चतुर्गृहीतमपि चतुस्सङ्ख्यावच्छिन्नमपि प्रधानद्रव्यमेव । अतो दाक्षायणयज्ञे ऐन्द्रस्योपांशुयाजस्थानापन्नत्वात् आज्यविकारे द एव चतुर्गृहीतम् । तत उपस्तरणाभिघारणे न क्रियेते | आज्यस्थानापन्नत्वात् जाघन्या अपि चतुरवदानं नोपस्तरणाभिघारणे इति ||
।
"
१५. क - आहुति कार्यासु वषट्कृते वषट्कारे कृते वौषट्' इति शब्द उक्ते यागे द्रव्यस्य स्रुगादिभ्यः प्रच्यावनं वषट्कारेण वा सह ॥
,
ह. - सन्निपातस्सङ्गमः ||
१६. क - सन्निपातयेदित्यनुवर्तते । वायव्यचमसादिषु सोमादौ गृह्यमाणे 'उपयामगृहीतोसि' इत्यनेन सह अस्योचरणका वायव्यादिषु सोमादिषु ग्रहणम् । पुरस्तादुपयामादिषु मन्त्रेण यावद्देवनोच्यते तावद्वारां स्रावयेत् ॥
;
Acharya Shri Kailassagarsuri Gyanmandir
ह. - उपयामशब्देन ग्रहे चैन्द्रवायवादिषु क्रियां सन्निपातयेत् संयोजयेदित्यर्थः । मन्त्रान्तेनेत्यस्यायमपवादः ॥
1क - तत्र.
For Private and Personal Use Only
I

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122