Book Title: Apstambparibhasha Sutram
Author(s): A Mahadev Shastri
Publisher: Government of Mysore

View full book text
Previous | Next

Page 46
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः खण्डः. स्मकेषूद्देश्यरूपेण तेषामुपकुर्वन्ति । अतो देवता अपि यागनिर्वर्तकत्वेन तत्कारकत्वनाङ्गानि । अतस्साङ्गो यज्ञो मन्त्रब्राह्मणाभ्यां प्रतीयते ॥ ह.-मन्त्रश्च ब्राह्मणं च मन्त्रब्रह्मणे । यज्ञ इति यज्ञसाध्यमपूर्वमभिधीयते । मन्त्रब्राह्मणशब्देन सकलस्य वेदस्य ग्रहणं । सकलो वेदः करणेतिकर्तव्यतानुबन्धस्या उठेयात्मकस्यापूर्वस्यैव प्रमाणं, न भूतार्थम्य रुद्ररोदनादेः । तस्य प्रमाणानपेक्षत्वात् । मन्त्रप्रतिपाद्यार्थानां ब्राह्मणविहितानामपि उपसंहारार्थ मन्त्रग्रहणं । यथा : इयान् प्रादेशसम्मित: ' इति त्रिवृतः पवित्रस्य प्रादेशमात्रत्वम् । 'दशतँ शक्करीमम' इति मन्त्रवर्णादुभाभ्यां प्रतिग्रहणं । ‘उत्सादताङ्गादङ्गादवत्तानां' इत्युसादतोवदानं । ' होतृषदना हरिताः' इति मन्त्रवर्णाद्वरितानामेव दर्भाणामुपादानं। 'नरो यत्ते दुदुहुदक्षिणेन' इति दक्षिणेनैव हस्तेन पीडनं । 'दशावनिभ्यः' इत्युभाभ्यामभिषवः । तथा विमान एष दिवो मध्य आस्ते ' इति द्वाभ्यामश्मनिधाने पृश्निरश्मा निधीयते 'मध्ये दिवो निहितः पृश्निरश्या' इति । एवंप्रकारैर्मन्त्रैरर्थवादैश्चानुष्ठेयोर्थः प्रतिपादितः । एवंविधा उपादीयन्ते । किंच यत्र मन्त्रेण प्रयोगरूपाभिधानं दृश्यते न च विनियोगो दृश्यते तत्र मन्त्र एव प्रमाणं । अतस्तस्यार्थस्यानुष्ठेयतेति ॥ ३३.क-ननु मन्त्रानुचार्य विहितकर्मप्रयोगं कुर्वन्ति । [न] ततोर्थमवगच्छन्ति । अनोनर्थका मन्त्राः । अनर्थकत्वान्नमान्नवर्णिकी देवता सिध्यतीत्यत आह-मत्रब्राह्मणयोर्वेदनामधेयम् ॥ वेद इति कर्तव्यतानुसन्धानेना. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122