Book Title: Apstambparibhasha Sutram
Author(s): A Mahadev Shastri
Publisher: Government of Mysore

View full book text
Previous | Next

Page 100
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयः खण्डः. ४६. क.-बलाबलप्रसङ्गादिदमाह-यतदापतति अवहननादिद्रव्यसंस्कारायोग्या ब्रीहिमयास्तण्डुला विद्यन्ने सर्वसंस्कारयोग्या बीहिसदृशा नीवारा विद्यन्ते, तत्र यदि ब्रीहिमयः पुरोडाशः अवहननादिसंस्कारहानि:, अथ तत्संस्कारादन्यः ब्रीहिमयत्वहानिः । एवं द्रव्यसंस्काराविरोधः । तस्मिविरोधे द्रव्यं बलीयः । द्रव्यं ग्राह्यं संस्कारहीनमपि ॥ ह.-द्रव्यं च संस्कारश्च द्रव्यसंस्कारौ । तयोर्विरोधो द्रव्यसंस्कारविरोधः । तत्र द्रव्यं बलीयः । यथा गवामभावे गोपयस उपलब्धिः अजाश्च पयस्विन्यस्सम्भवन्ति । तत्र संस्कारत्यागेन गोपय एवं गृह्यते न पुनस्संस्कारार्थमजापयो गृह्यते । परे तु-संस्कारान्पयसि कुर्वन्ति । संस्काराः पयसि क्रियन्ते । गव्ये पयसि क्रियन्ते पूर्वे च मन्त्रा जप्याः । इति बोधायनश्च ॥ १७. क.-अर्थशब्दः प्रयोजनवाची । द्रव्यप्रयोजनयोर्यत्र विरोधः तत्र प्रयोजनं बलीयः बलवत् । तथा हि खादिरो यूपदव्यत्वेन विहित: ‘खादिरो यूपः । इति । तस्य च प्रयोजनमात्मनिबद्धस्य पशोर्निवारणम् । स चाणुविद्यते तन्निवारणासमर्थः । तत्समर्थश्च कदरो विद्यते । यदि द्रव्यजिघृक्षा पशुवारणप्रयोजनानवाप्तिः । यदि तजिघृक्षा द्रव्यानवाप्तिः । अतोर्थद्रव्ययोविरोधः । तत्रार्थों बलीयान , प्रयोजनं बलवत्तरम् ॥ ह.-अर्थः प्रयोजनम् । यथा पशुनियोजनार्थ समर्थः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122