Book Title: Apstambparibhasha Sutram
Author(s): A Mahadev Shastri
Publisher: Government of Mysore

View full book text
Previous | Next

Page 80
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयः खण्डः. ७. क-समवदानं सहावदानं पूर्वोक्तं न वा कुर्यात्कुर्यादेव वा ॥ ह.-समवदानं सर्वग्रहणमधस्तनसूत्रे विहितं न कुर्यात् , हुला हुत्वा पृथगेव गृहीयादित्यर्थः । पूर्वसूत्रेणास्य विकल्पः ॥ ८-९. क-दर्वीहोमेषु समिदभावस्स्यात् समिद्वः कुर्यात् । किमविशेषेण ? नेत्याह, अग्रिहोत्रवज । अग्निहोत्रं वर्जयित्वान्यत्र । ननु तेषु दर्वीहोमेषु कुतस्समित्प्राप्त्याशङ्का ? उच्यते । 'यदेकां सभिधमाधाय द्वे आहुती जुहोति । अथ कस्यां समिधि द्वितीयामाहुति जुहोति ' इति अग्निहोत्रे प्रत्याहुति समिदाश क्यते । तेन लिङ्गेनाहुतावाहुतौ समित्स्यादिति सर्वदर्वीहोमेपु प्रत्याहुति स्वाहाकारवत्सामान्येन समिद्विधिरस्तीत्याशङ्का । कथं तर्हि सैषा निवर्तते ? ‘यवे समिधावादध्यात् । भ्रातृव्यमस्मै जनयेत्' इति निन्दितत्वात् । अग्निहोत्र एव समिद्विधानम् । अन्यत्र दवीहोमेषु समिदभावः ॥ ८. ह-समिधोऽभावस्समिदभावः । अग्निहोत्रप्रकरणे • यदेकां समिधमाधाय द्वे आहुती जुहोति । अथकस्यां समिधि द्वितीयामाहुति जुहोति' इति लिङ्गन्दर्शनेन सर्वेषु दर्वीहोमेषु समिधः प्राप्तिमाशङ्क्य तनिषेधार्थोयमारम्भः ॥ ९. ह-अग्निहोत्रस्यापि समिधः प्रतिषेधे प्राप्ने, प्रतिप्रसूयते अग्निहोत्रे समिद्भवत्येवेति ॥ १०. क-अपरेणानिममेरपरबासीन: दक्षिणं जान्वाच्य भूमौ निपात्य न सव्यं नोभयम् , अनाच्यानिपात्य वा सर्वदर्वीहोमान् जुहोति । एष औत्सर्गिको विधिः ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122