Book Title: Apstambparibhasha Sutram
Author(s): A Mahadev Shastri
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
परिभाषाभाष्यवृत्त्योः. णानामेवाध्यापनयाजनविधानात्तेषामेवाविज्यं । नेतरयोः । अत एव वाजपेययाजिनोपि ब्राह्मणस्यैवात्विज्यं । न तु क्षत्रियवैश्ययोः ॥
- ह.-धर्मशास्त्रवचनेनैव सिद्धे “तस्माद्वाजपेययाज्यात्विजीन" इत्यनेन वाक्यविशेषण क्षत्रियस्यापि वाजपेययाजिन आत्विज्यमाशय तनिषेधार्थमिदमारब्धं । ब्राह्मणानार्षयानिति सोमे वचनं अनुविनामपि चमसाध्वणां ब्राह्मणत्वनियमार्थम्। अथवा धर्मशास्त्रे ब्राह्मणानां द्रव्यानार्थमात्विज्यनियमः पुरुपार्थः । तदतिक्रमे च पुरुषस्य प्रत्यवायो न तोः । अयन्तु क्रत्वर्थ आत्तिज्यनियमः । अतिक्रमे च क्रनुवैगुण्यं प्रयोजनमिति ॥ - २४. क-क्रतवः क्रियन्त इत्याहवनीयादिसाध्यान्यग्निकर्माण्युच्यन्ते । अग्नय आधानसंस्कारसंस्कृताः गार्हपत्यादयः । तेषां यदाहवनीये जुहोतीत्यादिभि वचनैः क्रत्वङ्गत्वेन विनियुक्तत्वात्क्रतुशेषाः ऋतूनामुपकारकाः । तेषां 'वसन्ते ब्राह्मणोनिमादधीत' 'नक्तं गार्हपत्यमादधाति' 'अर्कोदिते सूर्य आहवनीयमादधाति' इत्येवमादिभिर्वचनैः आधानमुपकारकं । तेन वसन्तादिकालविहितेनाधानेनोत्पन्नाहवनीयादयो ध्रियमाणा वसन्तादिकालविहितोपनयनसंस्कृताधीतमन्त्रा इव सर्वक्रतूनामुपकुर्वन्ति । एवं सर्वऋतूनाममयः सदाहिताङ्गभूताः ॥
ह.-सर्वत्र ऋतूपदेनाग्निसाध्य कर्माभिधीयते । यत्पूनराधानं सोमपूर्व तत्रापि अग्रयः सदाहिता एव । अविशेषनास्तिकपुस्तके
क्रुतरिति नेताग्निसाध्यं.
For Private and Personal Use Only

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122