Book Title: Apstambparibhasha Sutram
Author(s): A Mahadev Shastri
Publisher: Government of Mysore

View full book text
Previous | Next

Page 93
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७६ परिभाषाभाष्यवृत्त्योः नबन्ध्या, इत्यस्मिन्पक्षे निरूढ एवं प्रकृतिः नैकादशिनधर्मा इति ख्यापनार्थम् ॥ ३३. क.-सोग्नीषोमीयः दार्शपूर्णमासिकान् धर्मानात्मसात्कृत्वा, तैस्सहात्मीयान् सबनीयाय प्रयच्छति । अतस्तस्य प्रकृतिः ॥ ह.-सोग्नीषोमीयस्सवनीयस्य प्रकृतिः । सवनीयस्य पशुपुरोडाशस्य ऐन्द्रागपशपुरोडाशस्य च बार्बनहुनानुमन्त्रणं केचिन्मन्यन्ते । उभयोरनीषोमीयपशुपुरोडाशप्रकृतिकवं मन्यमाना औपदशिकाः पुनस्तदनुषपन्नमिति मन्यते । य एव प्रत्यक्षविहिना अग्नीषोमीयधर्मास्त एवानीषोमीयात्सवनीयविधिनाऽतिदिश्यन्ते । ये तु दार्शपूर्णमासिकास्ते दर्शपूर्णमासाभ्यामेव सवनीयादिषु प्रवर्तन्ते नामीषोमीयातू, न हि भिक्षुको भिक्षुकान्याचितुमर्हतीति न्यायात् । अनीषोमीयस्य पशुपुरोडाशस्य वार्चन तानुमन्त्रणं दार्शपूर्णमासिकम् , तयोरपि हुतानुमन्त्रणस्य दार्शपूर्णमासिकत्वमेव न्याय्यम् । इदमर्थमेवाग्नीषोमीयस्य च पशोरित्यत्र चशब्दग्रहणम् । तस्मादाग्नेयस्य पशुपुरोडाशस्य आग्नेयवद्धतानुमन्त्रणम् । ऐन्द्रामस्येन्द्रामवत् ॥ ३४-३५. क.-एवमग्रीषोमीयलधैस्सहात्मीयान् धर्मान् आग्नेयः कृष्णग्रीवः' इत्यादिविहितानामैकादशिनानां प्रयच्छन् तेषां सवनीय: प्रकृतिः । तथा ऐकादशिनाः पशुगणानां 'आदित्यां मल्हाम्' 'आश्विनं धूम्रललामं ' इत्यादिविहितानां प्रयच्छन्तस्तेषां प्रकृतिः ।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122