Book Title: Apstambparibhasha Sutram
Author(s): A Mahadev Shastri
Publisher: Government of Mysore
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमः खण्डः
ह.-वाचो गतिर्वाक्सन्द्रवः । विलम्बितो मध्यमो द्रुत इति मन्द्रादिवत्सवनादिक्रमेण प्रागाज्यभागाद्यनुक्रमेण विलम्बितादयो भवन्तीत्यर्थः । चशब्द एतेषु स्थानेषु स्वरान्तरोपदेशात् प्राकृतंस्वरो यथा निवर्तते तथा विलम्बितादयो न निवर्तन्त इति वाक्संद्रवनिवृत्त्यर्थः । यथा सामिधेनीप्रभृत्यूपांशु यजतीति पौनराधेयिक्याम् ॥
१८. क-यानि ऋग्वेदविहितान्यङ्गानि तानि होता कुर्यात् । वचनात्कारणान्तराद्वान्यः कुर्यात् । होता वेदान्तरविहितं वचनात्करोति ।
____ ह.-अनिमें होतेति वरणसंस्कारनिमित्तो महत्विग्वचनो होतृशब्दः । स ऋग्वेदविहितान् पदार्थान् होतैव कुर्यात् ॥ ... १९. क-यजुर्वेदविहितेष्वङ्गप्वध्वर्युः कर्ता । वचनाकारणान्तराद्वान्यस्य कर्तृत्वम् ॥
ह.-अध्वर्युशब्दोपि वरणनिमित्तो महत्विग्वचन एव । स यजुर्वेदविहितान् पदार्थान् अध्वर्युरेव कुर्यात् ॥
२०. क-सामवेदविहितेष्वङ्गदाता कर्तृत्वेन नियम्यते । वचनात्कारणान्तराद्वान्यः कुर्यात् । अन्यवेदविहितं चोद्गाता ॥
ह.-उद्गातशब्दोपि वरणनिमित्तो महत्विग्वचन एव । सामवेदविहितान् पदार्थान् उद्गातैव कुर्यात् ॥
२१. क-प्रस्तुतैरेव सर्वैः ऋग्वेदयजुर्वेदसामवेदैः विहितान्यङ्गानि ब्रह्मा करोति । न तद्ब्रह्मत्वसिद्धयेथर्ववेदमपेक्षते । यत
1नियमार्थः.
For Private and Personal Use Only

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122