Book Title: Praman Paribhasha
Author(s): Dharmsuri, Nyayvijay
Publisher: Harashchand Bhurabhai

View full book text
Previous | Next

Page 160
________________ १४६ प्रमाणपरिभाषा--- . तथाहि--- ---- ___ पूर्वः पूर्वो नयः प्रचुरगोचरः परःपरस्तु परिमितविषयः॥१॥ - सन्मात्रगोचरात्सङ्ग्रहानैगमो भावाभावभूमिकत्वाद् भूमविषयः ॥२॥ सद्विशेषप्रकाशकाद्व्यवहारतः सङ्ग्रहः समस्ततत्समूमहोपदर्शकत्वात् बहुविषयः ॥ ३॥ वर्तमानविषयाद् ऋजुसूत्रात् व्यवहारस्त्रिकालविषयावलम्बित्वादनल्पार्थः ॥ ४॥ . • कालादिभेदेन भिन्नार्थोपदेशिनः शब्दाद् ऋजुसूत्रस्तद् विपरीतवेदकत्वान्महार्थः ॥ ५॥ प्रतिपर्यायशब्दमर्थभेदमभीप्सतः समभिरूढाच्छन्दस्तद्विपर्ययानुयायित्वात् प्रभूतविषयः॥६॥ '. प्रतिक्रियं विभिन्नमर्थ प्रतिजानानादेवम्भूतात्समभिरूढास्तदन्यथार्थस्थापकत्वान्महागोचरः ॥ ७ ॥ इति । ___ एतेषां च सप्तानां नयानामेकैकप्रभेदतः शतभेदभावेन सप्त शतानि भेदाः प्रज्ञप्ताः । यदा तु शब्दादित्रितय्या एक एव शब्दनयो विवक्षितः स्यात् तदैकैकस्य शतविधत्वात् पञ्चशतानि नयानाम् । यदाच सामान्यग्राहिणो नैगमस्य सङ्ग्रहेऽन्तर्भावः विशेषग्राहिणश्वास्य व्यवहारेऽन्तःपातो विवक्ष्यते तदा मूलनयानां षड्डिधत्वात् षट्शतानि भवन्ति । यदा तूक्तरीत्या नैगमस्यापार्थक्यात् सङ्ग्रह व्यवहारर्जुमूत्रलक्षणास्त्रयोऽर्थनयाः, एकस्तु शब्दनयः पयोयास्तिकनयः तदा नयचतुष्केन चत्वारि शतानि । द्रव्यार्थिक-पर्यायाार्थकभेदेन च द्वैविध्याभिप्राये द्विशती नयानां भवति । कुत्रापि “निच्छयववहारणया मूलिमभेदा नयाण स. व्वाणं" इति । उत्कृष्टतोऽसङ्ख्यातास्तु नया भवन्तः प्रागेव प्रादशिषत, अयमभिप्राय:- यावन्तो वचनप्रकाराः सावधारणाः ते. सर्वे नयाः परसमयास्तीर्थिकसिद्धान्ताः ये च निरवधारणाः

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236