Book Title: Praman Paribhasha
Author(s): Dharmsuri, Nyayvijay
Publisher: Harashchand Bhurabhai

View full book text
Previous | Next

Page 199
________________ न्यायालङ्कारालङ्कृता । १८५ अथ 'आदिविरहित:' इति द्वितीयो विकल्पः । अनादिरेव जीवकर्मणोः सम्बन्ध इति यदि तात्पर्यम्, तदप्ययौक्तिकम्, एवमपि मोक्षाभावदोषस्य तादवस्थ्यात्, यो ह्यनादिः संयोगः सोऽनन्तो दृष्टः यथा गगनात्मनोः, न ह्याकाशेन सह जीवस्य कदापि संयोगो निवर्तते एवं कर्मणाऽपि सहासी कथं निवर्तेत ?, कथं चातः सूपपादः स्याद् मुक्तभाव : ? इति । अत्रोच्यते । जीवकर्मणोः संयोगसन्तानोऽनादिरेव न चातोऽसावनम्त एव भवेदिति युक्तं वक्तुम्, अनादेरपि संयुक्तवस्तुसन्तानस्य सान्तत्वोपलम्भात्, यथा हि बीजाङ्कुरयोः सन्तानः, तथाहि - बीजाङ्कुरयोर्मध्येऽन्यतरदनिर्वर्त्तित कार्यमेवे यद् विहतं तत्रानयोर्हत एव सन्तानः । एवं कुक्कुट्यण्डकयोः, पितापुत्रयोरपि वदितव्यम् । यथा वा काश्चनोपलयोरनादिकालप्रवृत्तसन्तानभावगतोपि संयोगः ज्वलज्ज्वलनप रितापाद्युपायेन व्यवच्छिन्नो भवति, तथैव जीवकर्मणोरपि संयोगोऽनादिसन्तानगतोपि तपः संयमाद्युपायेन विदलितो भवति, नातो मोक्षानुपपत्तिः । नन्वेष जीवकर्मणोः संयोगः जीवनभसोरिवानादिः काञ्चनोपलयोरिव वा ? आये तत्प्र हाणायोगात् मोक्षानुपपत्तिः । द्वितीये सर्वजीवानां तत्महाणसम्भवेन मुक्तत्वप्रसक्तेः शून्यतानुषङ्गः संसारस्येति २४ -

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236