Book Title: Praman Paribhasha
Author(s): Dharmsuri, Nyayvijay
Publisher: Harashchand Bhurabhai

View full book text
Previous | Next

Page 229
________________ ग्रन्थोद्धारणनैपुणीमनुपमा संशोधनाद्यैरल कुर्वाणा इतिहासतत्त्वविबुधाः प्राप्ता उपाध्यायताम् ॥१०॥ श्रीमङ्गला न्यायविशारदान्विताः.. श्रीन्यायतीर्था मुनयः प्रवर्तकाः । पातञ्जलव्याकरणीयभाष्यधी महार्णवाऽन्तर्विहितप्रवेशकाः ॥ ११ ॥ व्याख्यानवाचस्पतयो विज्ञानव्यवसायिनः। तपस्यानिरतात्मानः श्रीभक्तिविजयर्षयः ॥ १२ ॥ हेमोदितव्याकरणप्रतिष्ठिताः सैद्धान्तिकाः साक्षरसिंहसाधवः । प्राज्ञाश्च विद्याविजयाः सुभाषकाः सद्यः सुसन्दर्भकलाकलाधराः ॥१३॥ अल्पे वयस्यपि समर्जितशाब्दशास्त्र___ ज्ञानोदयाः सहृदया मुनयो मृगेन्द्राः । एवं परेऽपि बहवो मुनयः सकर्णाः शान्तिप्रिया यदनघक्रममर्चयन्ति ॥ १४ ॥ प्रौढप्रभावभाजो जगदुषकारा जयान्ति ते गुरवः । शास्त्रविशारदजैनाचार्यश्रीविजयधर्मसूरीन्द्राः ॥ १५ ॥ दिशभिः कुलकम् ।

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236