Book Title: Praman Paribhasha
Author(s): Dharmsuri, Nyayvijay
Publisher: Harashchand Bhurabhai

View full book text
Previous | Next

Page 184
________________ १७० प्रमाणपरिभाषावेदितव्यः। देहधर्मत्वे च ज्ञानादीनां मृतदेहेपि तदुपलम्भ. प्रसङ्गः इत्युक्तमेव । न च लावण्यादिवदुपपत्तिः तेषां मृतदेहपि सत्त्वात् । इतरथा तस्य तन्मात्राहेतुकत्वेन चैतन्यवदेवा. तिरिक्तहत्वपक्षणेऽनायासादात्मसिद्धेः । न च तदानीं प्राणा. भावात्तदभावः, नलिकादिना वायुसञ्चारेपि चैतन्यानुपलब्धः। किश्च देहस्य चेतनत्वे प्रतिदिनमन्यान्यभावे तस्य पूर्वदिनानुभूतस्योत्तरदिने स्मरणं न स्यात् अन्यदृष्टस्यान्येन स्मरणाभावात् अन्यथातिप्रसङ्गात् । एकचैतन्यसन्ताने वासनाफलयोरुपपत्तेने दोष इत्यप्यपरिष्कृताभिधानम्, आद्यसुतचैतन्यस्य चैतन्यानुपादानत्वात् । मातृचैतन्यं तदुपादानामितिचेत् ?, तर्हि मात्रनुभूतस्य भूणेन स्मरणानुषङ्गः, मातृचैतन्यसंसर्गस्य चैतन्योत्पादकत्वे तु तत्संलग्नघटादावपि तदनुत्पादे का प्रत्याशा ?; स्वेदजादिषु च मात्रभावेन दुरुपपादस्तदुत्पादः, तस्मात् यदेकं चतन्योपादानं स एवात्मा । अथ यथा वृश्चिकस्य गोमयवृश्चिकप्रभवत्वं तथा ज्ञानस्याभ्यासरसायनमातापितृशुक्रशोणितादिनानाहेतुप्रभवत्वमुपपद्यत एवेति चेद् न, रसायनादिस्थलेपि समानजातीयपूर्वाभ्याससम्भवात्, इतरथाहि समानेपि रसायनाधुपयोगे यमजयोः प्रज्ञामेधादिविशेषो दुरुपपादः, तस्मात् प्रज्ञादीनां जन्मादौ न विशेषः, शालूकगोमयजन्ययोस्तु शालूकयोमिथो विशेषदर्शनादेव विचित्रहेतुप्रभवत्वमिति न किञ्चिद्नुपपन्नम् । यत्तु शरीरवृद्ध्या चैतन्यद्धेः चैतन्यं शरीरोपादानमिति मतं, तदसारम्, महादेहस्यापि गजाऽजगरादेरल्पचेतनत्वात् । शरीरविकाराच्चैतन्यविकारोपलम्भात् तस्य तद्धमत्वमप्यनादरणीयम्, सात्त्विकानामन्यगतचित्तानां वा शरीरच्छेदपि चैतन्यविकारानुपलब्धेः,

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236