Book Title: Praman Paribhasha
Author(s): Dharmsuri, Nyayvijay
Publisher: Harashchand Bhurabhai

View full book text
Previous | Next

Page 208
________________ १९४ प्रमाणपरिभाषामिति, न ह्यसति विपक्षबाधकप्रमाणे कीदृशोऽपि विद्वान् कीदृशमपि प्रतिबन्धं क्षमते विधातुम् । अपि च विचित्रा भावाः, ये हि केचन सन्तोऽनादयो जीववत्सर्वकालमवतिष्ठमाना एवासते, केचित्पुनः प्रागभावादिवद्भवन्तोऽप्यनादयः प्रतिकूलसामग्रीयोगे विनश्यन्तोऽनुभूयन्त इति । अपचीयमानत्वेनापि हेतुना रागादिदोषाणां निरन्वयविनाशः सुलभ एवेत्यलमधिकेन । बाईस्पत्यादीनामभिप्रायेण पुना रागादयो न लोभादि कर्मोदयनिमित्ताः किंतु कफादिप्रकृतिहेतवः, तथाहि कफहेतुको रागः पित्तनिमित्तो द्वेषः, वातनिदानश्च मोहः, कफादयश्च सर्वदा सन्निहिताः, देहस्य तदात्मकत्वात् नातो वीतरागत्व. सम्भव इति न समीचीनम्, रागादेर्व्यभिचारितया कफादिहेतुत्वासिद्धेः, वातप्रकृतेरपि रागद्वेषयोः कफप्रकृतिकस्यापिद्वेषमोहयोः, पित्तप्रकृतेश्च मोहरोगयोरुपलब्धेः । एवं शुक्रोपचयनिबन्धन एव रागः इत्याद्यप्युच्छृङ्खलम्, अत्यन्तरमणीरमणीभवतः परिक्षीणशुक्रस्यापि रागोद्रेकदर्शनात् शुक्रोपच यस्य सर्वस्त्रीसाधारणाऽभिलाषजनकत्वेन कस्यचन कस्यांचनैव रागोद्रे कानुपपत्तेश्व, तस्मात्तथाविध कर्मैव विचित्रस्वभावतया तदा तदा तत्तत्कारणापेक्षं तत्र तत्र रागादिहेतुरिति । एतेन पृथ्व्यम्भोभूयस्त्वे रागः, तेजोवायुप्राबल्ये द्वेषः, जलवाय्वाधिक्ये मोहः, एत.

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236