Book Title: Praman Paribhasha
Author(s): Dharmsuri, Nyayvijay
Publisher: Harashchand Bhurabhai

View full book text
Previous | Next

Page 204
________________ १९० - प्रमाणपरिभाषाम्भवत्वात् गृहीतत्रामाण्यकस्य पुनस्तत्र लैङिगकेनाऽऽश्वासप्रयोजनाभावात् । इमा वा निबोधत ! प्रोगप्रणाली:-- सात्मिका विद्रुमशिलादिरूपा पृथ्वी, छिनाया अप्यस्या:पुनस्तत्स्थान एव समानजातीयाङकुरोत्थानात्, अर्शोङ्कुरवत् । भौममम्भः सचेतनम्, क्षतभूसजातीयस्य स्वभावस्य सम्भवात्, दर्दुरवत् । नाभसमपि सचेतनम्, अभ्रादिविकारे स्वतः सम्भूय पातात् मीनादिवत् । सात्मकं तेजः आहा. रोपादानात्, तवृद्धौ विकारविशेषोपलब्धेश्च, नरवत् । सात्मको वायुः, अन्यप्रेरितत्वे तिर्यग्गतिमत्त्वात गोवत् । वनस्पतिरप्यात्मवान् , छेदादिभिर्लान्यादिप्रतीतेः पुरूषाङ्गवत्, . कृमिशङ्खगण्डुपदजलौकाकपर्दप्रभृतियूफामत्कूणमत्कोटकलिक्षादिपतङ्गमक्षिकादशरौलम्वप्रमुखद्वित्रिचतुरिन्द्रियाणामधिल गानेन सचेतनत्वं सम्मतं सर्ववादिरूपाणाम् पश्चेद्रियाः पुनश्चतुर्धा, नारकाःतियश्च देवा मानुषाश्चेति तत्र नरकेषुभवा नारकाः, तेषां निवासी रत्नप्रभा-शर्कराप्रभा-वालुकाप्रभा-पङ्कप्रभा धूमप्रभा-तमःप्रभा-महातमःप्रभानाम्नीषु घनाम्बुचाताकाशमतिष्ठासु सप्तस्वधोधःपृथुतरभूमिषु । ते च तत्राधिकाधिकनित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः परसरोदीरित्तदुःखा:संक्लिष्टासुरोदीरितदुखाश्च प्राक्चतु

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236