Book Title: Praman Paribhasha
Author(s): Dharmsuri, Nyayvijay
Publisher: Harashchand Bhurabhai

View full book text
Previous | Next

Page 172
________________ १५८ प्रमाणपरिभाषा.. अथ सेनामालावनेत्यादिशब्दानामनेकार्थविषयत्वमस्त्येवेति चेन्न करि- कुरङ्ग- तुरङ्ग-मातङ्गादिसमूहस्यैवैकस्य सेनाशब्देनाभिधानात् पुष्पसमूहस्य मालापदेन वृक्षसमूहस्य वनशब्देन चोक्ते नेकार्थप्रतिपादनं सम्भव येकशब्दस्य । . ननु “वृक्षौ" इति पदं वृक्षद्वयबोधकम् , “वृक्षाः" इति च बहुक्षबोधकं कथमुपपादुकं स्यात् इति चेत् ? पाणिन्यादीनामेकशेषारम्भात् अन्येषामभिधानस्य स्वाभाविकत्वात् इत्येवाभङ्गुरमुत्तरं निधेयं चेतसि । तत्रैकशेषपक्षे द्वाभ्यामेव वृक्षशब्दाभ्यां वृक्षद्वयस्य बहुभिरेव वृक्षशब्दैबहूनां वृक्षाणामगिधानात् । कुत एकशब्दस्य सकृदनेकार्थविषयत्वम् लुप्तावशिष्टशब्दयोः सादृश्यात् वृक्षरूपार्थस्य समानत्वाच्चैकत्वोपचारेण तत्रैकशब्दप्रयोगोपपत्तेः । अभिधानस्य स्वाभाविकत्वपक्षे च वृक्षशब्दो द्विबहुवचनान्तः स्वभावत एव द्वित्वबहुत्वविशिष्टं वृक्षरूपार्थमाचष्टे । यद्यपि द्वितीयपक्षे एकस्यैव वृक्षपदस्यानेकवृक्षबोधकत्वमायातम् , तथाप्यनेकधर्मविशिष्टार्थविबोधकत्वमेकपदस्य नास्तीति नियमो विज्ञेयः, . एवं च वृक्षा इति बहुवचनान्तेनापि वृक्षपदेन वृक्षत्वरूपैकधर्मेणैव बोधो नानेकधर्मेणानेकवस्तुनः, तथैव प्रकृतेप्यस्तिप्रभृतिपदेनाप्यस्तित्वादिरूपैकधर्मेणैव बोधसम्भवः न पुनर्धर्मान्तरेण । ___ ननु "वृक्षाः" इति पदमेवास्ति "तदन्तं पदम्" इति वचनात् अत्र हि तत्पदेन स्यादित्यादिविभक्तिपरिग्रहः, एवं चैकपदस्याप्यनेकधर्मेण बोधात्वं दृश्यत एवेति किमीयोऽयं न्यायः "एकपदस्यानेकधर्मेण बोधकत्वं नास्ति" इति उक्तं हि• "अनेकमेकं च पदस्य वाच्यं वृक्षा इति प्रत्ययवत्प्रकृत्या" इति । अनाहुःएकपदस्य प्राधान्येनानेकधर्मविशिष्टावबोधकत्वं नास्ती.

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236