Book Title: Praman Paribhasha
Author(s): Dharmsuri, Nyayvijay
Publisher: Harashchand Bhurabhai

View full book text
Previous | Next

Page 227
________________ __अहम् । अथ टीकाकृतः प्रशस्तिः। जयति श्रीअनेकान्तकान्तसिद्धान्ततोयतः । शान्ताशेषतृषो देवो देवार्यों जगदीश्वरः ॥१॥ वादं व्यधाद् भगवता जितवांस्तु कर्म भिलभवन्नपि मुमोच न चन्द्रभूतिम् । विस्माययनिति जगत् महता महिम्ना हर्षाय कस्य न भवेद् गुरुगौतमर्षिः ? ॥२॥ युक्तः सुधर्मसभयाऽप्यभयः सुधर्मा साधर्मभावरहितो भगवान् सुधर्मा । 'श्रीशासनाधिप ज़िनाधिप वर्धमान पट्टोदयाद्रिसविता सविताऽस्तु शस्तम् ॥ ३॥ जम्बूस्वामिप्रभृतिगुरुमिभूरिभिः सूरिभिश्चाऽ लंचक्राणं क्रमत इह तत्पदृरूपं पयोजम् । आतेनाना अभिविकसितं साधुसिंद्धान्तसारै आँवध्वान्तोद्दलनकुशलैर्भानुभिर्भानुमन्तः॥४॥ येषां चाननपद्ममद्भुतरसं दृष्ट्वा मुदामेदुरौ सूर्याचन्द्रमसौ गवेषणकृतेऽलब्धस्य तस्यान्वहम् ।

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236