Book Title: Praman Paribhasha
Author(s): Dharmsuri, Nyayvijay
Publisher: Harashchand Bhurabhai

View full book text
Previous | Next

Page 200
________________ प्रमाणपरिभाषाचेत् ? न, उभयथाप्युपलब्धेः उभयमेव जीवस्वभावमविशेषेण प्रतिपद्यामहे तथाहि-प्रथमोऽनाधनन्तसंयोगोऽभव्यानां द्रष्टव्यः द्वितीयोऽनादिसान्तसंयोगी भव्यापेक्षयाऽवधारणीयः। ननु जीवत्वसामान्येऽपि " अयं भव्यः अयमभव्यः " इति किंकृतोयं विशेषः ? । नच जीवत्वसामान्यपि यथा नारकतिर्यग्भावादयो विशेषाः तथा भव्याभव्यत्वविशेषो भवे. देवेति वदितव्यम्, कर्मजनिता हि इमे नारकभावादिविशेषाः । नतु स्वाभाविकाः भव्याभव्यत्वविशेषोपि यदि कर्मजनितस्तदा भवतु को निवारयिता ?, न पुनरेषोऽभ्युपगमः इति । उच्यते यथा हि जीवनभसोव्यत्वसत्त्वप्रमेयत्वादी समानपि जीवाजीवत्वादिना भेदः तथा जीवत्वसामान्येपि भव्याभव्यत्वकृतो विशेषो यदि जीवानां स्यात् तदा को दोषः ? । नन्वेवं भव्यभावो नित्योपविनाशी प्राप्नोति स्वाभाविकत्वात् जीवत्ववत् । इष्टत्वे मोक्षामावप्रसङ्गः, न हि भव्यभावे नित्यावस्थायिनि संभवति निर्वाणम् “सिद्धो न भव्यो नाप्यभव्यः" इति मुक्तेः। ' अत्राभिदध्मः। यथा खलु घटप्रागभावोऽनादिस्वभावजातीयोपि घटोवादे सनिधनो निभालितः, एवं भव्यत्वस्यापि ज्ञानतप:सचिवचरणक्रियोपायतोऽभावः स्यात् तर्हि का क्षतिः १ । नन्वेवं सति भव्यजीवशून्यः संसार आसज्येत, अभव्यैकसाम्राज्यं जगत् स्यात्। तथाहि स्तोकस्तोकाकृष्यमाणधान्यस्य

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236