Book Title: Praman Paribhasha
Author(s): Dharmsuri, Nyayvijay
Publisher: Harashchand Bhurabhai

View full book text
Previous | Next

Page 198
________________ १८४ प्रमाणपरिभाषाद्विशिष्टपुरुषवत् । हीनस्थानं हि शरीरम्, आत्मनो दुःखहेतुत्वात्, कारागारवत् तत्परिग्रहवांश्च संसारी जीवः प्रसिद्ध एवेति । न च दैवदेहे तदभावात पक्षाव्याप्तिः, तस्यापि तत्सत्वात्, यत्परतन्त्रश्चासौ; तत्कर्मेति । ननु आत्मकर्मणोः सम्बन्ध आदिमान् आदिविरहितो वा ?, आदिमे कि पूर्व जीवः प्रसूर्यत पश्चात् कर्म ?, आहोस्वित् पूर्व कम पश्चाद् जीवः ?, युगपद्वा ?, इति त्रयों विकल्पाः, तत्र नाद्यस्तावत् कक्षीकारः क्षेमकारः, यतो न कर्मतः पूर्व खरविषाणस्येवात्मनो युज्यते सम्भवः अहेतुकत्वात्, अहेतुकं हि नोदेति खरशृङ्गवत् । जायमानं खलु सहेतुकमेव प्रतीतिसिद्धं यथा घटादिपदार्थसार्थः । निष्कारणस्य च जातस्य निष्कारण एव विलयः स्यात् । अथ कर्मणः पूर्वमनादिकालासिद्ध एवात्मोति कि तस्य सहेतुकनिर्हेतुकत्वमीमांसयेति चेत् ?; तदप्यशस्यम् जीवस्य कमसम्बन्धाभावानुसङ्गात् अकारणत्वाद् नभस इव । अथ निष्कारणोप्यसौ भवतीति मतिः, तर्हि मुक्तस्याप्यसौ भूयो भविष्यति निष्कारणत्वाविशेषात्, ततश्च मुक्तावपि क आश्वासः ? । अथवा कर्मयोगाभावाद् नित्यमुक्त एवासौ स्यात् । कथं वा मोक्षव्यपदेशस्तस्य सम्भवेत् न ह्यबद्धस्य नभसो मुक्तव्यपदेशो दृष्टः, इति न समगस्त प्रथमः पक्षः । द्वितीयोऽप्ययुक्तः कर्तुजीवस्याभावेन हि जीवात् प्राक नाईत्युद्भवितुं कर्म, आक्रियमाणस्य कर्मत्वाभावात्, निष्कारणश्चत्थमसौ कर्मोद्भवः स्यात, ततोऽकारणोद्भवस्याकारणविलयानुषङ्गः। एतेन तृतीयपक्षोऽपि निरस्त एव ज्ञेयः । न हि युगपदुत्पन्नयोर्जीवकर्मणोः “ अयं जीवः कर्ता इदं तत्कर्म” इति व्यपदेशो गोसव्येतराविषाणवद् सम्भवी ।

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236