Book Title: Praman Paribhasha
Author(s): Dharmsuri, Nyayvijay
Publisher: Harashchand Bhurabhai

View full book text
Previous | Next

Page 171
________________ १५७ भङ्गः । घटादिरूपैकधर्मिविशेष्यकक्रमार्पितविधिप्रतिषेधप्रकारकबोधजनकवाक्यत्वं तल्लक्षणम् । क्रमाप्तिस्वरूपपररूपाधपेक्षयाऽस्तित्वनास्तित्वरूपो घट इति निरूपितप्रायम् । ___सहार्पितस्वरूपपररूपादिविवक्षायां "स्यादवक्तव्य एवं घटः" इति तुरीयो भङ्गः । घटादिविशेष्यकावक्तव्यत्वप्रकारकबोधजनकवाक्यत्वं तल्लक्षणम् । ननु कथमवक्तव्यत्वं घटस्य ? उच्यते- सर्वोपि शब्दो मुख्यभावेन न सत्त्वासत्वे युगपत्यतिपादयति तथाप्रतिपादने शब्दस्य शक्त्यभावात् सर्वस्य पदस्यैकपदार्थविषयत्वोपपत्तेः, तथाहि- अस्तिपदं सत्तावाचकं नासत्वं प्रतिपादयति, एवं नास्तीतिपदमसत्त्वाभिधायि न सत्तां बोधयितुमर्हति । ननु सर्वपदानामेकार्थत्वनियमे नानार्थकपदप्रसिद्धिः कथं निर्वहतीति चेत् अत्राहुः___गवादिपदस्यापि स्वर्गाद्यनेकार्थतया प्रसिद्धवतस्तत्त्वतो, ऽनेकत्वात् सादृश्योपचारादेव तस्यैकत्वेन व्यवहारात् । अन्यथा सकलार्थस्याप्येकशब्दवाच्यत्वापत्तेः । अर्थभेदेनानेकशब्दप्रयोगवैफल्यात् , यथैव खलु समभिरूढनयापेक्षया शब्दभेदाद् ध्रुवोऽर्थभेदः तथैवार्थभेदादपि शब्दभेदः सिद्ध एव, इतरथा वाच्यवाचकनियमव्यवहारविलोपप्रसङ्गादिति । __ ननु यथासमयं शब्दप्रवृत्तेः युगपत् सदसत्त्वयोः संकेतितः शब्दस्तदभिधायी भवतु ? इति चेत्तदप्यरम्यम् , सङ्केतस्यापि वाच्यवाचकशक्त्यनुरोधेनैव प्रवृत्तेः न नाम कचन वाच्यवाचकशक्त्यतिक्रमेण सङ्केतप्रत्तिदृष्टचरीति क्रमेणैव संङ्केतितपदस्याप्यर्थद्वयबोधनशक्तिसिद्धिः।। पुष्पदन्तादिशब्दानामपि क्रमेणैवार्थद्वयप्रतिपादनसामर्थ्यमवसेयम् , "शतृशानचौ सत्" इति शतृशानचोः सङ्केतिकसत्पदवत् इति ।

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236