SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः खण्डः ह.-वाचो गतिर्वाक्सन्द्रवः । विलम्बितो मध्यमो द्रुत इति मन्द्रादिवत्सवनादिक्रमेण प्रागाज्यभागाद्यनुक्रमेण विलम्बितादयो भवन्तीत्यर्थः । चशब्द एतेषु स्थानेषु स्वरान्तरोपदेशात् प्राकृतंस्वरो यथा निवर्तते तथा विलम्बितादयो न निवर्तन्त इति वाक्संद्रवनिवृत्त्यर्थः । यथा सामिधेनीप्रभृत्यूपांशु यजतीति पौनराधेयिक्याम् ॥ १८. क-यानि ऋग्वेदविहितान्यङ्गानि तानि होता कुर्यात् । वचनात्कारणान्तराद्वान्यः कुर्यात् । होता वेदान्तरविहितं वचनात्करोति । ____ ह.-अनिमें होतेति वरणसंस्कारनिमित्तो महत्विग्वचनो होतृशब्दः । स ऋग्वेदविहितान् पदार्थान् होतैव कुर्यात् ॥ ... १९. क-यजुर्वेदविहितेष्वङ्गप्वध्वर्युः कर्ता । वचनाकारणान्तराद्वान्यस्य कर्तृत्वम् ॥ ह.-अध्वर्युशब्दोपि वरणनिमित्तो महत्विग्वचन एव । स यजुर्वेदविहितान् पदार्थान् अध्वर्युरेव कुर्यात् ॥ २०. क-सामवेदविहितेष्वङ्गदाता कर्तृत्वेन नियम्यते । वचनात्कारणान्तराद्वान्यः कुर्यात् । अन्यवेदविहितं चोद्गाता ॥ ह.-उद्गातशब्दोपि वरणनिमित्तो महत्विग्वचन एव । सामवेदविहितान् पदार्थान् उद्गातैव कुर्यात् ॥ २१. क-प्रस्तुतैरेव सर्वैः ऋग्वेदयजुर्वेदसामवेदैः विहितान्यङ्गानि ब्रह्मा करोति । न तद्ब्रह्मत्वसिद्धयेथर्ववेदमपेक्षते । यत 1नियमार्थः. For Private and Personal Use Only
SR No.020068
Book TitleApstambparibhasha Sutram
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherGovernment of Mysore
Publication Year1893
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy