Book Title: Updesh Saptati
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 605
________________ "उपदेशः-१५" वित्तानि पात्रेषु वपन्तु हे जनाः !, भवाभिलाषो यदि वो न विद्यते । तादृक्षमक्षूणमसारसम्पदां, फलं हि दानादपरं न विद्यते ।।१।। पुराऽवनिपुरे नाम्ना, प्रकृत्यापि च भद्रकः । अभूच्छ्रेष्ठी राजमान्यो, जायाऽप्येतत्सदृग्गुणा ।।१।। अन्यदा दम्पती तौ श्रीधर्मं श्रुत्वा गुरोर्मुखात् । . तत्पाद्येऽभिग्रहान्कांश्चि-त्स्वीचक्रतुरकृतिमान् ।।२।। त्रिः पूजां द्विः प्रतिक्रान्ति, भुक्तिमेकान्तरां च सः । सुपात्रदानसछित्त-त्यागाद्यं प्रतिपन्नवान् ।।३।।. . . दयिताऽप्याददे सर्वं, तन्नमस्कृत्य तौ गुरून् । गृहे गतौ कियत्कालं, ताभ्यां धर्मश्च निर्ममे ।।४।। अन्येधुर्द्रविणं क्षीणं, तस्य प्राक्कर्मयोगतः । . ततश्च वानरप्रायं, कोऽपि तं मन्यतेऽपि न ।।५।। अथ भार्याऽऽह गच्छन्तु, भवन्तो मत्पितुर्गृहे । तत्र च द्रविणैराढ्याः , विद्यन्ते भ्रातरोऽपि मे ।।६।। ते च तुभ्यं प्रदास्यन्ति, द्रव्यं कियदपि प्रभो ! । तेन त्वं व्यवसायादि, कारं कारं सुखीभव ।।७।। इत्युक्तेऽप्यस्य नोत्साह-स्तत्र गन्तुं मनागपि । , श्वशुरस्य गृहे यानं, सतां लजाकरं खलु ।।८।। २९९ उपदेश सप्तति

Loading...

Page Navigation
1 ... 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640