Book Title: Updesh Saptati
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 615
________________ द्वादशव्रतधारित्वात्, तावन्ति तिलकान्यपि । बिभ्राणं हृदये हेम-सूत्रत्रयविराजितम् ।।९।। तं वीक्ष्य दण्डवीर्योऽभू-त्तस्मिन् सादरमानसः । क्रियाया डम्बरो यावां-स्तावांल्लोकादरोऽपि यत् ।।१०।। कुतः समागतोऽसि त्वं ?, यियासा कुत्र वा तव ?।। इति भाषिणि भूपाले, मायया सोऽप्युवाच तम् ।।११।। अहं श्रीअमरावत्या, पुरीतः श्राद्धवेषभृत् । तीर्थेषु यात्राः कुर्वाणः, प्राप्तोऽद्याऽत्र नराधिप ! ।।१२।। अत्र शक्रावताराख्ये, चैत्ये श्रीऋषभप्रभुम् ।। स्तुत्वा भवन्तं दृष्ट्वा च, मयात्माऽयं पविंत्रितः ।।१३।। आज्ञापयदथो सूदां-स्तद्भोजनकृते नृपः । अद्य तीर्थोपवासस्य, चिकीर्षास्तीति सोऽप्यवक् ।।१४।। क्षपणस्य निर्वधं तु, भूपालाद्यैः कृते सति । स प्राप्तो दानशालासु, दृष्टिपूतं चरन् पथि ।।१५।। पठतस्तत्र शास्त्राणि, वेदादीनि कृतोद्यमम् । कांश्चिद्ध्यानपरान्कांश्चि-त्कांश्चिदाचारशिक्षकान् ।।१६।। त्रिकालदेवपूजाये, त्रिशुद्धया स्नानिनः परान् । क्रमात्संक्रन्दनः श्राद्धान्, वीक्ष्याऽऽप परमां मुदम् ।।१७।। ३०४ उपदेश सप्तति

Loading...

Page Navigation
1 ... 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640