Book Title: Updesh Saptati
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 617
________________ श्राद्धाभिवादये तुभ्य-मिति वादिभिरुत्थितैः । आचम्य शुचिभिस्तोयै-स्तैः समं सोऽविशद् गृहम् ।।१८।। कोटिश्राद्धकृते जात-मनपाकं क्षणादपि । दिव्यप्रभावादेकोऽपि, सोऽभुङ्क कपटाऽऽस्तिकः ।।१९।। परिवेषयतानं रे !, बुभुक्षा व्याकुलस्य मे। कथं सूदाः ! दण्डवीर्यो, व्रीडापात्रं विधीयते ? ।।२०।। तस्वरूपे चरे राजे, ज्ञापिते स्वयमेत्य सः । अपश्यत् क्षामकुक्षि त-मिव मासोपवासिनम् ।।२१।। मायाश्राद्धोऽपि राजेन्द्रं, दृष्ट्वा श्रद्धासमन्वितम् । जगाद कठिनां वाचं, दीनभावं प्रकाशयन् ।।२२।। राजन्नमी त्वया सूदाः नियुक्ताः श्राद्धवचने । .. मामप्येक क्षुधाक्षामं, वदमी प्रीणयन्ति न ।।२३।। ' तच्छ्रुत्वा कुपितः किञ्चि-दपाचयदिलापतिः । शतमूढकमानेन, सूदरग्नं स्वदृक्पुरः ।।२४।। मायया स क्षणादेव, पश्यतो नृपतेस्तदा । जग्रसेऽनं यथा वह्निः, सर्वमिन्धनसञ्चयम् ।।२५।। मायाश्राद्धः पुनः प्राह, जातेन भवताऽपि किम ? । पूर्वेषां यः कुलं कीर्ति, पुण्यं नाऽधिकतां नयेत् ।।२६।। . ३०५ उपदेश सप्तति

Loading...

Page Navigation
1 ... 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640