Book Title: Updesh Saptati
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 613
________________ "उपदेशः-१६" गुणानुरागं गुणवजनेषु, साधर्मिकाणां सृजतां विधेयम् । वात्सल्यमुत्फुल्लधियाऽऽस्तिकौघैः, श्रीदण्डवीर्येण यथा कृतं तत् ।।१।। वंशे श्रीभरतस्यासीत्, अयोध्यायां महीपतिः । अष्टमो दण्डवीर्याख्य-स्तेजसां यशसां निधिः ।।१।। आचारं भरतेशस्य, श्राद्धभोजनलक्षणम् ।. . स सत्यापयति प्रोचै-स्त्रिखिण्डावनिमण्डनम् ।।२।। स षोडशसहस्रेषु, राजसु स्फीतभक्तिषु । . निषण्णेष्वन्यदाऽऽस्थान्या-मलञ्चक्रे वरासनम् ।।३।। गतेष्वथ च षट्कोटि-पूर्वेषु भरतादनु । सौधर्मेन्द्रः सभासीनः, सस्मार भगवद्गुणान् ।।४।। तुष्टाव च स तं तादृक्, पुंरत्नश्रेयमीशितुः । . वंशं शाखाशतैर्युक्तं, जगदाऽऽलम्बनक्षमम् ।।५।। वर्यवीर्यं दण्डवीर्य, गृणन्तं धर्ममार्हतम् । सौधर्मेन्द्रः सभासीनो, ददर्श ज्ञानचक्षुषा ।।६।। श्राद्धवेषं सुरेशोऽथ, कृत्वाऽयोध्यामुपागमत् । उदस्य पाणिं भूपाय, स आशीर्वचनं जगौ ।।७।। गृणन्तं चतुरो वेदान्, भरतेशेन निर्मितान् । दृष्टिपूते पथि न्यस्त-चरणं ब्रह्मधारिणम् ।।८।। ३०३ उपदेश सप्तति

Loading...

Page Navigation
1 ... 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640