Book Title: Updesh Saptati
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 625
________________ ज्ञानी प्राह पुरा चन्द्र-पुरेऽभूतां महर्द्धिको । जिनदत्तो जिनदासः, श्रावको परमार्हतौ ॥३।। ज्ञानसाधारणद्रव्यं, मीलयित्वाऽन्यदाऽऽस्तिकैः । सुस्थानत्वेन रक्षायै, तयोरेवाऽपितं क्रमात् ।।४।। आत्मजीवितवत्ताभ्यां, विज्ञाभ्यां जिनशासने । तद्रव्यरक्षाचिन्तादि, चिरकालं व्यघीयत ।।५।। जिनदत्तोऽन्यदाऽऽत्मीय-पुस्तिकायामलेखयत् । विलोक्यमानमाकुट्या, किञ्चिल्लेखकपार्श्वतः ।।६।। इदमप्यस्ति हि ज्ञान-स्थानमेवं विचारयन् । . स्वपार्श्वे चाऽपरद्रव्या-ऽभावाल्लेखयिस्ततदा ।।७।। . अर्पयामासिवानेष, निर्विचारो निजेच्छया । .. सहसा द्वादशद्रम्मा-नादाय ज्ञानवित्ततः ।।८।। युग्मम् ।। द्रव्यं साधारणं सङ्घ-योग्यमेवं विदन्नपि । अहमप्यस्मि तन्मध्ये, मनसीति विभावयन् ।।९।। जिनदासोऽपि मौग्ध्येन, तत्सत्कानेव तन्मितान् । द्रम्मान् व्यापारयामास, क्वचिदात्मप्रयोजने ।।१०।। युग्मम् ।। शास्त्रज्ञावपि तावेवं, विवेकविधिवर्जितौ । अनालोचिततत्पापो, प्रथमं नरकं गतौ ।।११।। ३०९ उपदेश सप्तति

Loading...

Page Navigation
1 ... 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640