Book Title: Updesh Saptati
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 637
________________ जयन्तु ते वाचकपुङ्गवाः श्री-चारित्ररत्ना गुरवो मदीयाः । यद्भाणिता वर्यविनेयवाराः, कुर्वन्त्यनेका उपकारकोटी: ।।१६।। तद्भातरः सकलकोविदमाननीयाः, पूज्या जयन्त्युदयशेखरपण्डितेन्द्राः । जहेममाऽपिजडिमा हृदयप्ररूढा, भास्वद्भिरात्मशुचिगोभिरनुत्तरा यैः ।।१७।। तयोः पदाम्भोरुहचञ्चरीकः, शिष्योऽभवत् पण्डितसोमधर्मः । शास्त्राणि भूयास्यापि यो बभाण, मर्माणि तेषां न विवेक किन्तु ।।१८।। उपदेशसप्ततिरियं, रुचिरा गुणबिन्दुबाणचन्द्रमिते १५०३ । : वर्षे तेन ग्रथिता, कृतार्थनीयाऽपि बुद्धधुर्यः ।।१९।। एषाऽल्पिकाऽपि निजहस्तपुस्तिकान्तः, स्थाप्याऽन्यपुस्तकगता न कदाऽपि कार्या । सैव प्रपा नगरमध्यगता वरेण्या, यस्यां जनः पिबति वारि यथा निजेच्छम् ।।२०।। विशुद्धबुद्धिर्जिनसोमसंयतः, कलिन्दिकायां कुशलो विनिर्ममे । सदोषपोषामपि मुक्तदूषणां, सतीमिवैतामुपदेशसप्ततिम् ।।२१।। यावद्वीरजिनेन्द्रशासनमिदं दुर्वादिनि शनं, यावन्मेरुमहीधरप्रभृतयो भावा अमी शाश्वताः । श्रीसङ्घश्च चतुर्विधोऽपि कुरुते यावञ्च पुण्योद्यमम्, तावत् श्रीउपदेशसप्ततिरियं श्रेयस्करी स्तात्सताम् ।।२२।। ।। इति श्रीउपदेशसप्ततिः पण्डितश्रीसोमधर्मगणिकृता अष्टमासीयथावसरव्याख्यानार्हाः ।। ३१५ उपदेश सप्तति

Loading...

Page Navigation
1 ... 635 636 637 638 639 640