Book Title: Updesh Saptati
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 627
________________ यदुक्तं वेदान्तिनापि - प्रभास्वे मा मतिं कुर्यात्, प्राणैः कण्ठगतैरपि । अग्निदग्धाः प्ररोहन्ति, प्रभादग्धाः पुनर्नहि ।।१।। प्रभास्वं ब्रह्महत्या च, दरिद्रस्य च यद्धनम् । गुरुपत्नी देवद्रव्यं, स्वर्गस्थमपि पातयेत् ।।२।। ततस्तो पन्नगौ तस्मा-नरकेष्वखिलेष्वपि । उत्पन्नौ पूरयित्वान्त-र्भवान्मत्स्यादियोनिषु ।।१२।। तिर्यग्जातिषु सर्वासु, तौ भ्रान्तौ तेन कर्मणा । । अङ्गच्छेदादिकां प्रायः, सहमानौ कदर्थनाम् ।।१३।। चतुस्त्रिकसहस्राणि, भवानेवं प्रपूर्य तो। . . यथाप्रवृत्तकरणा-च्छुभकर्मोदयोन्मुखौ ।।१४।। , व्यवहारिकुलेऽमुष्मिन्, युवां जातौ सहोदरौ । विडम्बयति कं नैषा, दुर्लच्या भवितव्यता ? ।।१५।। स्वेच्छातः षण्मितद्रम्म-व्यापारार्जितकर्मणा । द्विःषड्भवसहस्राणि, दुःखाली युवयोरियम् ।।१६।। चतुस्विकस्वर्णकोट्योः, प्रत्येकं पितृदत्तयोः । भवेऽत्र यदभूत्राशो-ऽपमानश्च पदे पदे ।।१७।। wwwwwwwwwww ३१० उपदेश सप्तति

Loading...

Page Navigation
1 ... 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640