Book Title: Smruti Tattvasya Part 02
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 655
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६५० दोचातत्त्वम् । पूजाप्रदीपे । 'अनुक्तकल्पे यन्त्रन्तु लिखेत् पद्म' दलाष्टकम् | षटकोणकर्णितं तत्र वेदद्वारोपशोभितम् । अत्रावाहनप्रति ष्ठाविसर्जनानौति शेषः । उपचारद्रव्याणि शारदायाम् । 'पार्थ श्यामाकदूर्वाञ्च विष्णुक्रान्ताभिरौरितम्' । विष्णुक्रान्ताऽपराजिता । श्यामाकादियुक्त जलमिति शेषः । 'गन्धपुष्पाक्षतयवकुशाग्रतिलसर्षपैः । सर्वैः सर्वदेवानामर्घ्य मेतदुदौरि तम्' । गन्धादियुक्तं जलमित्यर्थः । 'जातीलवङ्गकक्कोलेजलमाचमनीयकम् । दधिमध्वाज्यसंमिश्र मधुपर्क विनिर्दि शेत् । गन्धचन्दनकर्पूरकालागुरुभिरौरितः । पुष्पाणि तान्येव देयानि शास्त्रान्तरेऽवगम्यानि । 'गुग्गुल्वगुरुकोशोरशर्करामधुचन्दनैः । धूपं गन्धाम्बुसंमिश्रैर्नीचैर्देवस्य साधकः । उशौरं वीरणमूलम् । साधकः पूजाकर्त्ता । राघवभट्टष्टतम् । 'सर्वोपचार वस्तूनामलाभे भावनैव हि । निर्मलेनोदकेनाथ पूर्णतेत्याह नारदः । नारसिंहे । 'खाने वस्त्रे च नैवेद्यं दद्यादाचमनीयकस्' । देवीपुराणम् । 'यहीयते च देवेभ्यो गन्धपुष्पादिकं तथा । अर्घ्यपात्रस्थितस्तोयैरभिषिच्य तदुत्सृजेत्' । शारदायाम् । 'मन्त्राणां दश कथ्यन्ते संस्काराः सिद्दिदायिनः । जननं जीवनं पश्चात्ताड़नं बोधनं तथा । अथाभिषेको विमलीकरणाप्यायने तथा । तर्पणं दीपन गुप्तिर्दशैता मन्त्रसंस्क्रियाः । मन्त्राणां मातृका यन्त्रादुहारो जननं स्मृतम् । प्रणवान्तरितान् कृत्वा मन्त्रवर्णान् जपेत् सुधीः । एतज्जीवनमित्याहुर्मन्त्र तन्त्रविशारदाः । मन्त्रवर्णान् समालिख्य ताइयेच्चन्दनाम्भसा । प्रत्येकं वायुना मन्त्री ताड़न तदुदाहृतम्' | लिखनविधिमाह दानसागरे । 'शुभे नक्षत्रदिवसे शुभे चापि दिनग्रहे । लेखयेत् पूज्य देवेशान् रुद्रब्रह्मजनार्दनान् । पूर्वदिग्वदनो भूत्वा लिपिनो लेखको । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694