Book Title: Smruti Tattvasya Part 02
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
*૨૪
श्रीदुर्गानपतिः ।
I
"हे रावणस्य बधार्थाय रामस्यानुग्रहाय च । अकाले ब्रह्मणा बोधो देव्यास्त्वयि कृतः पुरा । श्रहमप्याश्विने षष्ठयां साया बोधयाम्यतः ।" इति देवीं बोधयित्वा च विल्वतरुमामन्त्रयेत् । यदि तु पत्रप्रवेशपूर्वदिने सायं षष्ठालाभस्तदा पूर्वदिने सायं बोधयित्वा परदिने आश्रामन्त्रयेत् । यदि उभयदिने सायं षष्ठयलाभ: तदा सायं विना षष्ठयां बोधयित्वा सायमामन्त्रयेत् । यथा " मेरुमन्दर कैलास हिमवच्छिखरे गिरौ । जातः श्रीफलह त्वमम्बिकायाः सदा प्रियः । श्रीशैलशिखरे जातः श्रीफल: श्रीनिकेतनः । नेतव्योऽसि मया गच्छ पूज्यो दुर्गा स्वरूपतः । " ततो गन्धं गृहीत्वा श्रम गन्धद्वारां दुराधर्षां नित्यपुष्टां करोषिणीम् । ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् । अनेन गन्धेन अमुष्या भगवत्या दुर्गादेयाः शुभाधिवासनमस्तु । ततो महीं गृहीत्वा तत्तन्मन्त्रं गायत्रीं वा पठित्वा श्रनया मह्या श्रमुष्या भगवत्या दुर्गादेव्याः शुभाधिवासनमस्तु इत्यादिना विल्ववृक्षेऽधिवासयेत् । पुनर्गन्धेन । तत्र द्रव्याणि मही गन्धः शिला धान्यं दूर्वा पुष्पं फलं दधि । घृतं स्वस्तिक सिन्दूरं शङ्ख कज्जल रोचनाः । सिद्धार्थः काञ्चनं रूप्यं ताम्र चामर दर्पणम् । दीपः प्रशस्तिपात्रञ्च विज्ञेयमधिवासने । ततः आचारात् पूजामण्डपं गत्वा आचम्य कदली दाड़िमी धान्यं हरिद्रा माणकं कचुः । विल्वोऽशोको जयन्ती च विज्ञेया नवपत्रिका । इत्युक्तनवपत्रिकां प्रतिमाञ्च संपूज्य गन्धःदिना अधिवासयेत् ।
अथ सप्तम्यादिकल्पः । तत्र सप्तम्यां मूलानचत्रयुक्तायां केवलायां वा कृतस्नानादिः पूर्ववत् संकल्पप्राकालीनं कर्म कृत्वा संकल्प कुर्य्यात् । नवम्यादि कल्पकरणे तु संकल्प विनैव सप्तम्यादि लत्यं कुर्य्यात् ।
For Private and Personal Use Only

Page Navigation
1 ... 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694