Book Title: Smruti Tattvasya Part 02
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५६
दीक्षातत्त्वम् । तत्तद्देवतोक्तपीठमन्त्रं न्यसेत् । ततो मन्त्रस्य दशविधसंस्कारान् कुर्यात् । यथा चन्दनलिप्तताम्रादिपात्रे माटका. यन्त्रं विलिख्य तवस्थ मन्त्रवर्णान् मनसा समाहृत्य वौजादिरूपमन्त्र निरूपणं जननम्। ९ । तत्तहोजाक्षरं प्रत्येकम् श्रोता. रहयमध्यस्थ कृत्वा दशधा जपरूपं जीवनम् । २ । चन्दन लिप्तताम्रादिपात्रे तान् वीजादिरूपमन्त्रवर्णान् समालिख्य यमिति वायुवीजन चन्दनोदकप्रक्षेपरूपं ताड़नम् । ३ । पुनस्तान् मन्त्रसंख्यक करवीरजैः पुष्प : प्रत्येक रमिति वह्निवौजेन दहनरूपं बोधनम् ।४। नमोऽन्तं दातव्यमन्त्र सुच्चार्य तत्तद्दे व. तानाम उच्चायाभिषिञ्चासौत्यनेन मन्त्र वर्णसंख्यया मन्त्रवर्णीपरि अश्वस्थपल्लवोदकप्रक्षेपरूपमभिषेकम। ५ । मनसा समस्तमन्त्र सञ्चिन्त्य ओं ह्रौं इति मन्त्रण मलत्रयदहनरूपं विमलीकरणम् । ६ । ओं ह्रौं इति मन्त्रजपेन कुशोदकेन मन्त्रस्य प्रत्यक्षरप्रक्षालनरूपमाम्यायनम् । ७। दातव्यमन्त्रमुच्चार्य तमहं तर्पयामि नम इति मन्त्रेण देवतीर्थजलेन लिखितमन्त्राधाररूपयन्त्र मन्त्रतर्पणम् । ८ । ओं ह्रीं थी इत्युच्चार्य दातव्य मन्त्रोच्चारणरूपं दोपनम् । ८ । जप्यमानमन्त्र स्यान्यनाप्रकाशनरूपं गोपनम् । १० । गुरुशिष्यो नय. कर्तकं कुर्यात् । ततोऽयं स्थापनं यथा खवामे त्रिकोणमण्डलं विलिख्य तत्र आधारशक्तये नम इति संपूज्य तत्र त्रिपटिकामारोप्य फडिति शङ्ख प्रक्षाल्य तदुपरि संस्थाप्य विम्बस्रुतामृतस्वरुपैस्तोयैः सुगन्धिपुष्पाबैराकीर्य तीर्थमावाह्य आधारं दशकलात्मानं पावकं शङ्ख हादशकलात्मानं रविं जलं षोड़शकलात्मानं सोमम् अनुक्रमत: स्मत्वा संपूज्य जलं स्पृष्ट्वा मूलं जपेत्। हमित्यवगुण्ठा षड़ङ्गन्चासमन्त्रैः अग्नीशासरवायुमध्ये दिक्षु च क्रमेण संपूज्य मत्यमुद्रया
For Private and Personal Use Only

Page Navigation
1 ... 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694