Book Title: Smruti Tattvasya Part 02
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 672
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीदुर्गार्चनपइतिः। नवयौवनसम्पन्नां सर्वाभरणभूषिताम्। सुचारुदशनां देवीं पौनीबतपयोधराम्। त्रिभङ्गस्थानसंस्थानां महिषासुरमर्दिनीम्। त्रिशूलं दक्षिणे हस्ते खग चक्र क्रमादधः । तीक्ष्णबाणं तथा शक्ति वामतोऽपि निबोधत। खेटर्क पूर्णचापञ्च पाशमङ्गशमेव च। घण्टा वा परशु वापि वामतः सनिवेशयेत्। अधस्तान्महिषं तहद् विशिरस्क' प्रदर्शयेत्। शिरश्छदोद्भवं तहदानवं खङ्गपाणिनम् । हृदि शूलेन निर्भिन्न निर्यदन्त्रविभूषितम् । रतारतौ कताङ्गञ्च रक्तविस्फ रितेक्षणम् । वेष्टितं नागपाशेन वकुटीभीषणाननम्। सपाशवामहस्ते न धृतकेशञ्च दुर्गया। वमधिरवाञ्च देव्या: सिंह प्रदर्शयेत् । देव्यास्तु दक्षिणं पादं समं सिंहोपरि स्थितम्। किञ्चिदूस सथा वाममष्ठं महिषोपरि। स्तू यमानञ्च तद्रूपममरैः सनि. वेशयेत्। इति अजातशोहा-कनकोत्तम-कान्तिकान्तमिति मार्कण्डेय पुराणोयतप्तकाञ्चनवाभामिति पुराणान्तरैकवाक्य. त्वादिदं मत्स्यपुराणोयं ध्याला स्खशिरसि पुष्य दत्त्वा सोऽह. मिति विचिन्त्य सपुष्यातमादाय आवाहयेत्। ओ सर्वभूतमयोद्भते सर्वासुरविमर्दिनि । अनुकम्पय मां देवि पूजास्थानं बजस्व मे। ओ आवाहयाम्यहं देवी मृण्मये श्रीफलेऽपि च । कैलासशिखरावि विन्ध्या हिमपर्वतात्। आगत्य विल्व. शाखायां चण्डि के कुरु सनिधिम्। ओ भूर्भुवः स्वर्भगवति दुर्गे इहागच्छ इहागच्छ इति आवाह्य ओम् स्थापितासि मया देवि मृण्मये श्रीफलेऽपि च। आयुरारोग्यमैश्वयं देहि देवि नमोऽस्तु ते। ओम् भगवति दुर्ग इह तिष्ठ इह तिष्ठ इति स्थापयित्वा कृताञ्जलिः ओम् दुमै दुर्गस्वरूपासि सुरतेजो. महाबले। सदानन्द करे देखि प्रमोद मम सिद्धये। ओम् एोहि भगवत्यम्न शत्रुक्षयजयप्रदे। भलितः पूजयामि त्वां For Private and Personal Use Only

Loading...

Page Navigation
1 ... 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694