Book Title: Padarth Prakash 25 Mandal Prakaranam
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________ एअ० / एतस्य' अनन्तरोक्त(स्य) राशेः 31508 14 त्रिगुणकरणेन ? यो राशिर्भवति 94526 42 स रवेः कर्कसंक्रान्त्याद्यदिनसत्कश्चारो ज्ञेयः / / उदयास्तसमये च 'तस्सद्ध' त्ति तस्यात्प्रातरुद्रच्छन् सायमस्तमंयश्च सूर्यो दृश्यते / / 39 / / तद्योजनान्याह- सीआ० / सप्तचत्वारिंशत्सहस्त्राणि त्रिषष्ट्यधिके द्वे च शते एकविंशतिषष्टिभागाश्च 47263 21, एतावद्योजनेभ्यो दूरतः सर्वाभ्यन्तरे मण्डले सूर्यमुदयन्तमस्तमयन्तं च कर्काद्यदिने जम्बूद्वीपसत्कपूर्वविदेहभरतपश्चिमविदेहैरावतादिषु वासिनो नरा: पश्यन्ति / यच्चेहोदयमानः सूर्यो भूमिलग्नो दृश्यते तत्तु दूरत्वात् / परं भूमितः सर्वत्रोच्चैस्त्वेन समो वर्तते / यदुक्तं भगवत्यामष्टमशतेऽष्टमोद्देशके- 'जम्बूदीवेणं भंते ! सूरिआ उग्गमणमुहत्तंसि मज्झंति अमुहतंसि अत्यमणमुहत्तंसि सव्वत्थ उच्चत्तेण समा ? हंता गोअमा !'' इत्यादि / / 40 / / अथोत्कृष्टदिवसे सूर्यस्य पश्चादग्रे च मिलितं कियत्तापक्षेत्रं स्यात् ? तदाह एअं चेव य दुगुणं, उभओ पासेसु तावखित्तं तु | एअं चेव य सव्वं, दट्ठवं बीअरविणो वि ||41|| एअं० / 'एतद् अनन्तरोक्तं तापक्षेत्रप्रमाणं 47263 0 पश्चादप्येतावदग्रतोऽप्येतावत्सूर्यस्योभयपार्धाभ्यां कृत्वा द्विगुणं भवति 94526 12 कर्कस्य प्रथमदिने। तथैतदेव सर्वं पूर्वोक्तस्वरुपं जम्बूद्वीपवर्तिद्वितीयरवेरपि द्रष्टव्यम् ||41 / / अथ कर्काद्यदिनवर्जशेषदिवसेष प्रतिदिवसं तेजसः का हानिः ? मकरात्का वृद्धिर्वा ? द्वात्रिंशत्तमगाथावृत्तौ करणेनोक्तापि साक्षादक्षरेणाह जंबूदीवे पइदिणमुभओ पासेसु तावखित्तस्स | छासीइ जोअणाई, अहिआई वुड्डिहाणीसु ||42 / / जंबू० / जम्बूद्वीपे सूर्यस्य पूर्वापरयोरेकैकपार्श्वे तापक्षेत्रस्य साधिकानि षडशीति: षडशीतिर्योजनानि कर्काद्धानौ मकराच्च वृद्धौ भवन्ति / यतस्त्र्यशीत्यधिकेन दिनशतेन दशभागीकृतस्य सर्वाभ्यन्तरमण्डलपरिधेरष्टोत्तरपञ्चशतसमधिकैक-त्रिंशत्सहस्रप्रमित एको दशभागभागो हीयते वर्धते च तदैकैकेन दिनेन का हानिर्वद्धिर्वा ? अत्र त्रैराशिकन्यास:- 183 /
Loading... Page Navigation 1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210