Book Title: Padarth Prakash 25 Mandal Prakaranam
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________ 2134537 भवति / प्रवचनसारोद्धारवृत्तिगताऽष्टाशीत्यधिकशततमेन्द्रियविषयविचार 188 द्वारे- "इगवीसं खलु लक्खा , चउतीसं चेव तह सहस्सा | पंच य सयाइं भणिआ , सत्ततीसाइ अइरिता / / 1 / / इह नयणविसयमाणं , पुक्खरदीवड्ढवासिणो मणुआ / पुव्वेण य अवरेण य, पिहं पिहं तह दिणुक्किडे |2||'' उत्कृष्टदिवसे एतावद्यो जनत उदितं पश्यन्ति , तत्रैतावत्क्षेत्रपरिधिसद्भावात् / परमिदं सर्वाभ्यन्तरमण्डलं मानुषोत्तरादर्वाक् संभवति, येन शेषमण्डलानामवकाशो दशोत्तरपञ्चशतयोजनान्तर्विलोक्यत इति, तेनोक्ततेजःप्रसरः कतिचित्सहरप्रेन्यूनो ज्ञेयः / नवरमियान् विशेष :जम्बूद्वीपगतसूर्ययोर्दक्षिणोत्तरयोः करप्रसरेभ्यो लवणसमुद्रगतचन्द्रसूर्याणां दक्षिणोत्तरयोः करप्रसरः स्तोकः, पूर्वपश्चिमयोश्च भूयान् , क्षेत्रस्य परिधिबाहुल्यात् | धातकीखण्डे च षण्णां पंक्तिगतसूर्याणामुत्तरोत्तरं दक्षिणोत्तरयोस्तेज :प्रसरः स्तोकः पूर्वपश्चिमयोश्च वर्धते / एवं कालोदे पुष्कराद्धेऽपि पूर्वपश्चिमयोरतिबहलो वर्धत इति स्थितिः / परं यो यः सूर्यो यत्र चरति तदधोवासिनो जनास्तमेव सूर्यं पश्यन्ति नान्यं तथाजगत्स्वाभाव्यादयवस्थाभङ्गदोषप्रसङ्गाच्च / एवं चन्द्रग्रहादीनामपि व्यवस्था भावनीया / / 44 / / अथ तेषां रवीणां दशभागादिस्वरुपमाह सव्वपरिहीण एवं, सव्वे वि अ भाणुणो दसंसतिगं | तावंतुक्कोसदिणे, जहन्नए दुन्नि उ दससे ||45 / / सव० / लवणधातकीकालोदपुष्कराद्धेषु सर्वपरिधीनां 'एवं' अमुना प्रकारेण जम्बूद्वीपन्यायेन सर्वेऽपि भानवः दशांशत्रिकम्' इति त्रीन् दशभागान् कर्कस्था युगपत्सर्वाभ्यन्तरमण्डले सञ्चरन्त उत्कृष्टदिवसे तापयन्ति , तदा दिनमानमष्टादशमुहूर्तम् , रात्रिद्वादशमुहूर्ता / जघन्यदिवसे समकं सर्वबाह्यमण्डलस्था मकरे द्वौ दशभागौ तापयन्ति , तदा दिनमानं द्वादशमुहूर्तं , रात्रिरष्टादशमुहूर्ता / सर्वेषां सूर्याणां चतुरशीत्यधिकशतमण्डलेषु प्रत्येकं षष्ट्या मुहृतैरेव समकं परिभ्रमणात् / / 45 / / अथ तेषामपि सूर्याणां चारक्षेत्रतः सञ्चरतां कियद्दिनस्तापक्षेत्रं वर्धते हीयते च ? इत्याह एवं च सइ दसंसे, तेसिं पइसंतनीहरंताणं / वड्ढइ हायइ तेसीसएण दिवसाण अणुकमसो ||46 / /
Loading... Page Navigation 1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210