Book Title: Padarth Prakash 25 Mandal Prakaranam
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________ सर्वाभ्यन्तरात्सप्तमे चन्द्रमण्डले रोहिणी 1 चित्रे 2 ढे, नक्षत्रमण्डलं चतुर्थम् / सर्वाभ्यन्तरादष्टमे चन्द्रमण्डले एका विशाखा, नक्षत्रमण्डलं पञ्चमम् 5 / सर्वाभ्यन्तरान्मंडला-त्पुनर्दशमेऽनुराधा , नक्षत्रमण्डलं षष्ठम् 6 / एकादशे चन्द्रमण्डले ज्येष्ठा , नक्षत्रमण्डलं स्प्तमम् 7 / / 83 / / मिग० / मृगशीर्ष 1 आर्द्रा 2 पुष्य 3 अश्लेषा 4 हस्त 5 मूल 6 पूर्वाषाढा 7 उत्तराषाढा 8 एतान्यष्टौ नक्षत्राणि सर्वबाह्ये पञ्चदशे चन्द्रमण्डले सन्ति, नात्रमण्डलमष्टमम् / / 84 / / अथ येषु चन्द्रमण्डलेषु नक्षत्राणि न सन्ति तान्याह सेसेसु मंडलेसुं, सत्तसु ससिणो न हुति रिक्खाणि / अट्ठसु हवंति ताणं, अढेव य मंडलाणि तओ ||85 / / सेसे० / 'शेषेषु द्वितीयचतुर्थपञ्चमनवमहादशत्रयोदशचतुर्दशसंज्ञेषु सातसु चन्द्रमण्डलेषु नक्षत्राणि न सन्ति / पूर्वोक्तेष्वष्टसु चन्द्रमण्डलेषु नक्षत्राणि सन्ति , 'ततः तस्मात्कारणात्तेषामष्टावेव मण्डलानि भवन्ति / / 8.5 / / अथ नक्षत्रमण्डलानामवस्थितत्वमाह--- रिक्खाणि मंडले जाणि वुत्ताणि ताणि तत्थेव / निच्चं चरंति चंदाईणं भोग तह उ बिति / / 86|| रिक्खा० यानि नक्षत्राणि यस्मिन्मण्डले उक्तानि तानि तत्रैव नित्यं' आकालं चरन्ति , तत्तन्निजं निजं मण्डलं त्यक्त्वा नान्यत्र मण्डले गच्छन्ति / चन्द्रादीनामुपभोग्यानि, आदिशब्दात्सूर्यग्रहाणां ग्रहः ! अष्टाविंशतिनक्षत्राणां मध्ये द्वादश नक्षत्राणि सर्वाभ्यन्तरमण्डलस्थानि चन्द्रस्योत्तरेमोत्तररयां दिशि व्यवस्थितानि सदा योगं युअन्ति / योगः किम् ? उच्यते, नक्षत्रसीमावर्तिना चन्द्रेण सह नक्षत्राणां संबन्धो योगः | अश्य नक्षत्राणि सर्वबाहामण्डलस्थानि चन्दस्य दक्षिणस्यां दिशि व्यवस्थितानि सदा योगं युअन्ति ! सर्वाभ्यन्तरसर्वबाह्ये नक्षत्रमण्डले त्यक्त्वा शेषाणि षण्मध्यमाण्डलस्थान्यष्टौ नक्षत्राणि कदाचिदुत्तरयोगीनि कदाचिद्दक्षिणयोगीनि कदाचित्यमर्दयोगीन्यपि / प्रमर्दमिति कोऽर्थः ? तेषां नक्षत्राणां मध्येन भूत्वा चन्द्रो व्रजति गच्छतीति समवायाङ्गे प्रोक्तम् / / 8.6 / / अथ किं, नक्षत्रं कति मुहूर्तानि चन्द्रेण सह चरति ? तत्र प्रथममभिजिन्नक्षत्रमाह---
Loading... Page Navigation 1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210