Book Title: Padarth Prakash 25 Mandal Prakaranam
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________ णरलोगम्मि अ सेसे, एवं दिणरयणिमाणमवि नेअं / नवरं बहिआ बहिआ, ससिसूराणं गई सिग्घा ||64 / / णर० / एवं' अनेन न्यायेन शेषे नरलोके दिनरात्रिमानमपि जम्बूदीपवज्ज्ञेयम्, तत्रत्यपूर्वविदेहपश्चिमविदेहभरतैरावतादिषुसर्वाभ्यन्तरमण्डलेचारिषु सूर्येषु दिनमष्टादशमुहूर्तं रात्रिद्वादशमुहूर्तेत्यादिकं तथैव परिभावनीयम् / यतो येषु दिनेषु जम्बूद्वीपे मध्यबाह्यमण्डलेषु सूर्यो भवतस्तेष्वेव दिनेषु तेऽपि सूर्यास्तत्रत्यमध्यबाह्यमण्डलेष्वेव भवन्ति / उत्तरचारित्वं दक्षिणचारित्वं च सर्वेषां 132 समकं भवति , एकनामकनक्षत्रराशिषु सर्वेषां सूर्याणामवस्थानात् / 'नवरं' इत्ययं विशेषः- लवणादिषु ये येभ्यो बहिः सूर्यास्तेषां 'गतिः' चलनं 'शीघ्रा' शीघ्रतरा जायते / / 64 / / अथ सर्वत्र क्षेत्रेषु दिनरात्रिसम्बन्ध्यष्टप्रहरकालस्वरुपमाह पढमपहराइकाला, जंबुद्दीवम्मि दोसु पासेसु / लब्भंति एगसमयं, तहेव सव्वत्थ णरलोए ||65 / / पढ० / प्रथमप्रहरादिका उदयकालादारभ्य रात्रेश्चतुर्थयामान्त्यकालं यावन्मेरोः समन्तादहोरात्रस्य सर्वे काला: समकालं जम्बूद्वीपे पृथक् पृथक क्षेत्रे लभ्यन्ते / भावना यथा-भरते यदा यत: स्थानात्सूर्य उदेति तत्पाश्चात्यानां दूरतराणां लोकानामस्तकालः, उदयस्थानाधोवासिनां जनानां मध्याह्नः,एवं केषाञ्चित्प्रथमः प्रहरः, केषाश्चिद्वितीयः प्रहरः, केषाश्चित्तृतीयः प्रहरः, क्वचिन्मध्यरात्रः क्वचित्सन्ध्या , एवं विचारणयाष्टप्रहरसम्बन्धी काल: समकं प्राप्यते / तथैव नरलोके सर्वत्र जम्बूद्वीपगतमेरोः समन्तात् सूर्यप्रमाणेनाष्टप्रहरकालसंभावनं चिन्त्यम् / / 65 / / सूर्यचन्द्रयोः स्वरूपमुक्त्वाऽथ चन्द्रस्य किञ्चिद्विशेषमाह केणं वड्डइ चंदो, परिहाणी होइ केण चंदस्स | केण सिअकिण्हपक्खा, दिणे अ रत्तिम्मि केणुदओ ||66 / / केणं० / केन प्रकारेण चन्द्रः शुक्लपक्षे वर्धते ? 1 केन प्रकारेण कृष्णपक्षे चन्द्रस्य परिहानिर्भवति ? 2 केन प्रकारेण शुक्लपक्षो भवति? 3 केन 5 प्रकारेण कृष्णपक्षोऽपि ? 4 केन प्रकारेण कदाचिच्चन्द्रस्य रात्रावुदयः स्यात् ?
Loading... Page Navigation 1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210